SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ [है. २.२.५८.] तृतीयः सर्गः । २२५ असाधयन्न पुत्रेभ्यो दारेभ्यो ददृशुर्न च । पोषुर्लाभाय राध्यन्तोपश्यन्तः श्रान्तयेध्वगाः ।। २५ ॥ २५. अध्वगाः पान्थाः पुत्रेभ्यो नासाधयन् । अस्मद्विरहेमी कथं भविष्यन्तीति पुत्राणां क्षेमाक्षेमादिविषयं दैवं नाचिन्तयन् । एवं दारेभ्यो ददृशुर्न च । किं तु लाभाय राध्यन्तो वृद्धिं विचारयन्तोत एव श्रान्तयेपश्यन्तो मार्गखेदमविचारयन्त: सन्त: प्रोषुः । शरदि हि पान्था व्यवहारार्थ देशान्तरं यान्ति ।। तुभ्यं रात्स्यन्ति । मह्यमीक्षसे । इत्यत्र “यद्वीक्ष्ये राधीक्षी' [५८] इति चतुर्थी॥ राधीक्ष्यर्थधातुयोगेपीच्छन्त्यन्ये । सांयात्रिकेभ्य आराधयन्। पुत्रेभ्यो नासाधयन् । राधिरपरपठितथुरादिर्णिगन्तो वा । साधिर्णिगन्त एव । दारेभ्यो ददृशुः। राधीक्ष्यर्थविषयाद्विप्रष्टव्यादिच्छत्यन्यः । लाभाय राध्यन्तः । श्रान्तयेपश्यन्तः ॥ लोहिनीव तडिज्योत्स्ना तापाय विरहे हि तत् । स्त्रैणं स्म श्लाघते पत्ये तिष्ठते शपते हुते ॥ २६ ॥ २६. विरहे सति हि यस्माज्योत्स्ना लोहिनीव तडिल्लोहिता विद्युदिव तापायासीत् । लोहिता हि विद्युत्सन्तापाय स्यात् । यदुक्तम् । वाताय कपिला विद्युदोतपायातिलोहिनी । पीता वर्षाय विज्ञेया दुर्भिक्षाय भवेत्सिता ॥ इति । तत्तस्मात्स्त्रैणं पत्ये श्लाघते स्म तिष्ठते स्म शपते स्म हुते स्म । १ एडिज्योत्स्ला. १ एफ °मादि . २ बी भीक्ष्यसे. ३ ए °धीक्षार्थ. ४ सी डी वि स" ५ वी दातापा. ६ वी र्पा च वि. ७ सीक्षायाभवमि. २९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy