________________
२२४
व्याश्रयमहाकाव्ये
[मूलराजः]
रात्स्यन्ति देवतास्तुभ्यं नाथ किं मह्यमीक्षसे । एवमाराधयन्सांयात्रिकेभ्यः कुलयोषितः॥ २४ ॥ २४. कुलयोषितः सांयात्रिकेभ्यः पोतवणिग्भ्यः प्रस्तावाहीपान्तरे जिगमिषुभ्य आराधयन् । द्वीपान्तरजिगमिषुपोतवणिजां क्षेमलाभादिविषयं दैवं पर्यालोचयन् । सविचारमूचुरित्यर्थो ने त्वकुलीना इव संभावितचिरकालीनविरहरूपमहापराधविधानरुष्टत्वात्तांश्चक्रुशुः । कथमित्याह । हे नाथ वल्लभ रात्स्यन्ति देवतास्तुभ्यं तव द्वीपान्तरे गच्छतः क्षेमलाभादिविषयं देवं समुद्रदेवताद्या देवता: पर्यालोचयिप्यन्ति तव क्षेमलाभादिविषये देवताः सांनिध्यं करिष्यन्तीत्यर्थः । अतः किं मह्यमीक्षसे मम विरहेसौ पतिव्रता भीरुः कथं भविष्यतीति क्षेमाक्षेमादिविषयं दैवं किमिति निरूपयसि । देवताप्रसादात्त्वयि क्षेमाभ्युदयादिमति त्वदेकशरणाया मम नितरां क्षेमाभ्युदयाद्येवेति मदैवचिन्तया त्वयाँ न खेद्यमिति भाव एवम् । यद्वा कुलयोषित: सांयात्रिकेभ्य आराधयन् । पोतवणिजां गमनविषयमभिप्रायं विचारितवत्यो विचारपूर्वमूचुरित्यर्थः । कथमित्याह । हे देव देववन्मभाराध्य हे नाथं ता मत्सपत्न्यस्तुभ्यमात्स्यिन्ति अकुलीनत्वेनासतीत्वादेतेस्मत्पतयः परपुरुषाभिसरणविघ्नाः कदा देशान्तरं यास्यन्तीति तव गमनाभिप्राय पर्यालोचयिष्यन्ति न तु वयं कुलीनत्वात्तस्मात्कि मह्यमीक्षसेस्या अभिप्रायः कीदृश इति विमतिपूर्व किमिति निरूपयसि । अहं त्वद्विरहं क्षणमपि नाभिलषामीत्यर्थः । एवम् सांयात्रिकाणां कुलयोषितां च बहुत्वेपि प्रत्येकं स्वस्वभर्तारं प्रति भणनविवक्षया तुभ्यमित्यादावेकव. चनम् ॥
१ एफ न्तरं जि'. २ सी न कु. ३ बी एफ त्वात्ताश्चु. सीत्वाभ्याश्च. डी त्वादिभ्यांश्शु. ४ डी °न्तरमिच्छ'. ५ एफ मादि. ६ सी डी पये दै. ७ ए या निखे. ८ डी मात्रारा . ९ ए °थ म. १० ए रात्सन्ति. ११ ए यं लो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org