SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ [है० २.२.५७.] तृतीयः सर्गः। २२३ दुग्धं द कल्पत । जज्ञे स्वात्यम्बु मुक्ताभ्यः ॥ धारिणोत्तमणे । शरदे धारयवृणम् । इत्यत्र “रुचिक्लप्यर्थ' [५४] इत्यादिना चतुर्थी ॥ ध्वानः प्रत्यशृणोन्मैत्री शिखिभ्योनुगृणन्धनः । . तस्मै प्रतिगृणन्तस्तेप्याशृण्वन्केकयाथ ताम् ॥ २३ ॥ - २३. ध्वानैगर्जितैः कृत्वा शिखिभ्यो मयूरेभ्योनुगृणन् शिख्युक्तमनुवदन्निव प्रशंसतो वा शिखिनः प्रोत्साहयन्निव घनो ध्वानरेव मैत्रीमान्तरप्रीतिं शिखिभ्यः प्रत्यशृणोदिव मेघदर्शनमात्रोद्भूतशिखिकेकानन्तरमेव गर्जनादङ्गीचकारेव । अथ धनस्य मैत्रीप्रतिश्रवणानन्तरं केकया तस्मै घनाय प्रतिगृणन्तो घनोक्तमनुवदन्त इव प्रशंसन्तं वा घनं प्रोत्साहयन्त इव । तेपि शिखिनोपि तां मैत्री तस्मै केकया आशृण्वन्निव गर्जानन्तरमेव केकायनादङ्गीचक्रुरिव । शरद्यपि हि मेघा गर्जन्ति तद्गर्जाश्रवणाच्च शिखिनः प्रीताः केकायन्ते । अतश्चैवमुत्प्रेक्षा । अत एव शिखिघनानामाख्यातृत्वार्थिते उपपद्यते । उत्प्रेक्षाद्योतकाश्चेवशब्दा अत्रावसीयन्ते । यो ह्यत्यन्तं स्निग्धौ वयस्यौ भवतस्तावन्योन्यमुक्तमनुवदन्तौ प्रशंसयोत्साहयन्तौ चावां मिथो वयस्याविति वाचापि मानसीं प्रीतिं प्रतिजानाते ॥ शिखिभ्यो मैत्री प्रत्यशृणोत् । तस्मै तामाशृण्वन् । इत्यत्र "प्रति" [५६] इत्यादिना चतुर्थी ॥ अर्थिनीति किम् । शिखिभ्यो मैत्री प्रत्यशृणोदित्यत्र मैत्र्यां मा भूत् ॥ तस्मै प्रतिगृणन्तः। शिखिभ्योनुगृगन् । इत्यत्र “प्रत्यनोः" [५७] इत्यादिना चतुर्थी ॥ आख्यातरीति किम् । तस्मै केकया प्रतिगृणन्त इत्यत्र केकायां मा भूत् ॥ १सी अथाप घ. डी अथापि व. २ सी जोश्राव. ३ सी डी पद्यते ।. ४. एफ भुक्ताम". ५ एफ् नाति शि. ६ बी प्रत्येत्या. ७ सी थीं । आख्या. ८ एफत् प्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy