SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २२२ व्याश्रयमहाकाव्ये [मूलराजः] जज्ञे स्वात्यम्बु मुक्ताभ्यो दुग्धं दध्ने न्वकल्पत । रिक्तोपि न ययौ मेघः शरदे धारयन्नृणम् ॥ २२ ॥ २२. नुरुपमार्थे । यथा दुग्धं दध्नेकल्पत दधिरूपविकारमापन्नं तथा स्वातिशब्देन स्वातिनक्षत्रयुतरवियुक्त: काल उपचारादुच्यते । स्वातावम्बु मेघजलं स्वात्यम्बु मुक्ताभ्यो जज्ञे मुक्ताफलरूपं विकारमापन्नम् । शरदि दुग्धानि दधीनि चान्यै सकाशात्प्रचुराणि विशिष्टानि च स्युरित्युपमानेनोक्तम् । तथा स्वातौ जलकणा ये के चन शुक्तिमुखेषु पतन्ति ते सर्वेपि मुक्ता: स्युरिति प्रसिद्धिः । तथा मेघो रिक्तोपि जलवर्जितोपि न ययौ । उत्प्रेक्ष्यते । शरदे ऋणं धारयन्नु ध्रियते तिष्ठति स्वरूपान्न प्रच्यवते ऋणं कर्तृ तद्भियमाणं प्रयुजान इव । ऋणिको हि रिक्तो द्रव्यरहित ऋणशोधनाशक्तत्वाद्यत्रोत्तमर्णेन राजाज्ञया प्रियते तस्मात्स्थानान्न गच्छति ।। गुणैः संजानानाः । प्रेम संजानानाः । इत्यन्न “समो ज्ञोस्मृतौ वा" [५१] इति वा तृतीया ॥ अस्मृताविति किम् । रतेः संजानन्तः ॥ दासीभिः संप्रायच्छन्त । इत्यत्र "दामः" [५२] इत्यादिना तृतीया । दाम आत्मनेपदं च ॥ अधर्म्य इति किम् । हंस्यै संप्रायच्छत् । अत्र "चतुर्थी" [५३] इति संप्रदाने चतुर्थी ॥ मुदेभवत् । इत्यत्र "तादर्से" [५४] इति चतुर्थी ॥ रुच्यथैः प्रेये । आत्मने रोचनात् । कस्मै स्वदते ॥ क्लप्यथैर्विकारे । १ एल्पतः ।. १ बी सी डी एफू युक्तर. २ एफ युक्तका. ३ सी मुक्तांफ. ४ सी न्यत्सर्वस. ५ एफ प्रेक्षते ।. ६ सी युञ्जन. डी युञ्जत ई. ७ सी हि रक्तों. ८ एफ नासक्त. ९ डी क्तश्चान्यत्रो. १० एफ धर्म इ. ११ एफ ते । कृप्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy