________________
[है० २.२.५०.] तृतीयः सर्गः ।
२२१ मघाभिः । मघासु । इत्यत्र "काले भात्" [१८] इत्यादिना वा तृतीया ॥
श्रुत्या प्रसिताः स्मृतौ प्रसिताः । विधिनोत्सुकोः करदाने उत्सुकाः । कृष्यावबद्धाः पशुष्ववबद्धाः । इत्यत्र “प्रसित" [४९] इत्यादिना वा तृतीया ॥
द्विद्रोणैः । पञ्चकेन। सहस्रेण । इत्यत्र "व्याप्ये द्वि" [५०] इत्यादिना वा तृतीया ॥ पक्षे । द्विद्रोणान्विद्रोणान् । पञ्चकं पञ्चकम् । सहस्रं सहस्रम् ॥ तृतीया वीप्सायां विहितेति तृतीयान्तस्य पदस्य द्विरुक्तिर्न स्यात् । द्वितीया तु कर्मणि विहिता न वीप्सायामतस्तदन्तस्य द्विरुक्तिः स्यात् ॥
संजानाना गुणैः प्रेम संजानन्तः पुरा रतेः। संपायच्छन्त दासीभिर्तीहीन् ग्रामीणदारकाः ॥ २० ॥
२०. ग्रामीणदारका ग्राम्यपुत्रा दासीभिश्वेटीनां ब्रीहीन्संप्रायच्छन्त ददुः यतो गुणै रूपलावण्यादिगुणान्प्रेम स्नेहं चार्थाद्दासीनां संजानाना जानन्तस्तथा पुरा पूर्व रतेः सुरतस्य संजानन्तः स्मरन्तः । ग्राम्या ह्यधर्म्यत्वादधासु दासीषु रमन्ते ॥
संपायच्छद्विसं हंस्यै हंसो यत्तन्मुदेभवत् ।
आत्मने रोचनाल्लब्ध कस्मै न वदतेथ वा ॥२१॥ २१. हंसो यद्विसं मृणालं हंस्यै स्वप्रियायै संप्रायच्छत्प्रेम्णा ददौ तद्विसं हस्या मुदेभवत् । अथ वात्मने रोचनाद्रोचत इत्येवं शील "इडित्.' [५.२.४४] इत्यादिनाने रोचनस्तस्माद्वल्लभाल्लब्धं प्राप्तं वस्तु कस्मै न वदते किं तु प्रीतेर्वर्धकत्वात्सर्वस्मै रुचिमुत्पादयतीत्यर्थः ॥
१ए स्मृत्यौ प्र. २ सी डी काः कृ. ३ सी ना तृ. ४ ए हश्रेण्येत्य'. ५ सी णान् प. ६ ए हश्रंसहश्रम् । तृ. ७ एफ यान्त्यप. ८ एफ ग्रामपु. ९ ए रूपाला . १० ए नाजा. ११ एफ धर्मत्वा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org