________________
२२० व्याश्रयमहाकाव्ये
[मूलराजः] उत्सुकाः करदानेवबद्धाः कृष्या पशुष्वपि । वीहीन् द्विद्रोणान् द्विद्रोणान् द्विद्रोणैश्च तिलान्ददुः ॥१८॥ १८. कृष्या महीकर्षणे पशुष्वपि गोमहिष्यादिषु चावबद्धा नित्यप्रसक्ता अत एव करदाने । करः कृषिपशुचारणादिकृतराजकीयभूम्युपभोगहेतुको राजग्राह्यो भागः । तस्य दान उत्सुका अत्यन्तं प्रसक्ता असाधारणविशेषणोपादानाद्राम्याः करोद्राहकराजपुरुषेभ्यो ददुः। कान् । व्रीहीन् । किंभूतान् । द्रोणश्चतुःषष्टिः कुडवाः । द्वौ द्रोणौ मानमेषां “मानम्" [६.४.१६८] इतीकणो “आनाभ्यद्विप्लब्" [६.४.१४०] इति लुपि वीप्सायां द्विरुक्तौ च द्विद्रोणान्विद्रोणान् । तथा द्विद्रोणैश्च तिलान् । चो भिन्नक्रमे । द्विद्रोणमानान्द्विद्रोणमानांस्तिलांश्च । शरदि हि ग्राम्याः सस्येषु निष्पन्नेषु राजकरं ददते ॥
क्रौञ्चान्सहस्रं सहस्रं पञ्चकेनान्वजीगणन् । सहस्रेण शुकान् गोप्यः पञ्चकं पञ्चकं रसात् ॥ १९ ॥
१९. गोप्यः क्षेत्ररक्षिका नार्यः सहस्रं सहस्रं क्रौञ्चान्पक्षिभेदान् रसात्कौतुकात्पञ्चकेन पञ्च संख्या मानमस्य “संख्या डते:” [६.४.१३०] इत्यादिनाके पञ्चकः संघस्तेनान्वर्जीगणन्पञ्च पञ्च कृत्वा गणितवत्य इत्यर्थः । तथा सहस्रेण सहस्रसंख्यान् सहस्रसंख्यान् शुकान् । पञ्चकं पञ्चकमन्वजीगणन् । पञ्चकं पञ्चकमित्यत्र शुकसामानाधिकरण्येपि पञ्चकशब्दाब्राह्मणाः संघ इतिवदेकवचनम् । शरदि हि क्रौञ्चाः शुकाश्च बाहुल्येन स्युः ।।
१ ए हश्रंसहश्र प. २ ए बी हश्रेण. १ एफ दाग्राम्याः. २ एफ “ष्टिकु. ३ बी द्विः प्लु. ४ सी दि ग्रा. ५ एफ स्रं क्रौ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org