SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २१९ [है० २.२.४७.] तृतीयः सर्गः । गर्जितैः कृतम् अद्भिर्भवतु । विद्युतालम् । किं त्वया । इत्यन्न "कृताद्यैः” [७] इति तृतीया ॥ मघाभिः पायसं श्राद्धं मघासु ब्रह्मचर्यवत् । श्रुत्या स्मृतौ च प्रसिता विदधुर्विधिनोत्सुकाः ॥ १७ ॥ १७. द्विजा मांभिर्मघाभिश्चन्द्रयुक्ताभिर्युक्ते काले पायसं दुग्धसंबन्धि श्राद्धं पितृतर्पणं विदधुर्यथा मघासु ब्रह्मचर्य विदधुः । किंभूताः सन्तः । श्रुत्या वेदे स्मृतौ च धर्मशास्त्रे च प्रसिता नित्यप्रसक्तोः श्रुतिज्ञाः स्मृतिज्ञाश्च । अत एव विधिनोत्सुका विधिर्वामजान्ववनमनयज्ञोपवीतापसव्यत्वकरणादिस्तत्रात्यन्तं प्रसक्ताः । शरदि हि श्राद्धपक्षः स्यात्तत्र चावश्यं श्राद्धकृद्भिर्ब्रह्मचर्य विधीयते । यत्स्मृतिः । ताम्बूलं दन्तकाष्ठं च स्निग्धस्नानमभोजनम् । रत्यौषधपरान्नानि श्राद्धकृत्सप्त वर्जयेत् ॥ १ ॥ अन्यथा तद्रेतः पितृमुख उपतिष्ठतीति । तत्र चावश्यं मघाश्चन्द्रेण युज्यन्ते । ततस्तास्वपि श्राद्धकृतो ब्रह्मचर्य विदधति । अत एवोपमाद्वारेणोक्तं मघासु ब्रह्मचर्यवदिति । तथा मघासु पायसमेव श्रौद्धं संकल्परूपं क्रियते । तथा च पितृसंहितायां पितृवचः । अपि नः स कुले जायाद्यो नो दद्यात्रयोदशीम् । पायसं मधुसर्पिभ्या वर्षासु च मघासु च ।। इति । न तु पिण्डप्रदानादि क्रियते प्रत्यवायात् । तदुक्तं स्मृतौ । मघायां पिण्डदानेन ज्येष्ठपुत्रो विनश्यति । इत्यादि । १ ए सी डी घादिभि. एफ घाभिश्च. २ ए सी ताः प्रति. ३ ए सी स्मृति ता . ४ सी एफ श्राद्धसं. ५ ए बी सी एफ पिंभ्यां व. ६ सी डी एफ °ण्डप्रदा'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy