________________
२१८ व्याश्रयमहाकाव्ये
[मूलराजः] यावी बकस्तिमीन्मत्स्याननुलक्ष्यीकृत्य वप्रे नद्यादितटेस्थात् । कीहक्सन् । अक्ष्णा काणस्तिमिग्रहणायाधोबद्धहक्त्वेन संकोचिकाक्षत्वात्काण इव भवन्नित्यर्थः । तथा पदा पादेन खञ्जो मायित्वात्तिमिविश्वासनाय खोडवन्मन्दं मन्दं गच्छंश्चेत्यर्थः । युक्तं चैतत् । यतः खलाः प्रायेण बाहुल्येन मायिनः स्युः । बकश्च जात्योयत्वात्खलः । शरदि ह्यनगाधे स्वच्छे च जले सुखेन दृश्यांस्तिमीन ग्रहीतुं बका नद्यादितटेषु विचरन्ति ॥
गोत्रेण पुष्करावर्त किं त्वया गर्जितैः कृतम् । विद्युतालं भवत्वद्भिर्हसा ऊचुन्विदं धनम् ॥ १६ ॥ १६. हंसा घनं मेघमिदं न्वेतदिवोचुः । यथा गोत्रेण संतानेन हे पुष्करावर्त पुष्करावर्तगोत्र मेघ स्वसमयाभावेन निष्फलत्वात्त्वया किम् । किमिति प्रतिषेधेव्ययम् । एवं कृतमलं भवत्वित्येतेपि । कृतमित्यकारान्तोनव्ययोपि । त्वया तव गर्जितैर्विद्युताद्भिर्जलैश्च सृतमित्यर्थः । शरदि हि हंसा: कलं शब्दायन्ते तत्प्रतिकूला धनगर्जितादयश्च स्तोकं स्तोकं प्रादुर्भवन्तीत्येवमाशङ्का ॥
अक्ष्णा काणः । पदा खञ्जः । प्रकृत्या शठः । प्रायेण मायिनः । गोत्रेण पुष्करावर्त। जात्योग्रः । इत्यत्र “य दैस्तद्वदाख्या" [४६] इति तृतीया ॥ प्रायेण मायिन इत्यत्र प्रायशब्दो बाहुल्यवचनस्तस्य च भेदो मायित्वं यर्थाक्ष्णः काणत्वं मायित्वेन च बाहुल्यवतां चलानामाख्या । यथा काणत्वेन काणाक्षियुक्तस्य नरस्याख्येति तद्वदाख्यावाचिनः प्रीयात्तृतीया ॥
१ बी न् गृही. २ सी स्वस्वस'. ३ एफ निःफल'. ४ सी डी किमपि. ५ सी डी कृत्यमि. ६ ए °न्ते न त. सीन्ते नात्प्र. डीन्ते तान्प्रति. ७ ए सी डी कं प्रा. ८ ए शङ्काः ॥ ९ डी एफ थाणा का". १०बी खलना. ११ एफ त्वे का. १२ एफ णाक्षयु. १३ एफू प्रायस्त'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org