________________
[है० २.२.४५.] तृतीयः सर्गः ।
२१७ कात्स्येनाब्जवनोद्भेदे सुखेनास्थुः सितच्छदाः । दुःखेनाब्दजले प्राप्ये कष्टेनासंश्च चातकाः ॥ १३ ॥ १३. कालान सामस्येन । उद्भेदे विकाशे । अब्दजले मेघजले । शिष्टं स्पष्टम् ॥
सस्येष्वाप्येष्वनायासेनाप्येनायासमम्बुनि। पान्थाः पथि सुखं प्रोषुर्दुःखमूषुश्च तत्प्रियाः ॥ १४ ॥ १४. प्राचुर्येण निष्पन्नत्वाद्धान्येषु सुखेन प्राप्येषु तथा जलापूर्णतडागादिकत्वात्सुखेन जले प्राप्ये सति पान्थाः पथि सुखं प्रोषुर्दशान्तरं गतास्तत्प्रियाश्च पान्थभार्याश्च दुःखमूषविरहात्कष्टेने स्थिताः ॥
सौमैः सह । इत्यत्र “सहार्थे' [४५] इति तृतीया ॥ अर्थग्रहणात् नभसा समम् । अह्रामा । सानुभिः सान्तम् । मुखैर्युगपत् । हासैः सार्धम् ॥ अर्थाद्गम्यमाने अधरैः स्पर्धाम् । न्यक्षेण स्पर्धाम् । कास्येनालवनोद्भेदे । इत्यादावपि सहार्थोस्ति ॥ सुखेनास्थुः । दुःखेन प्राप्ये । कष्टेनासन् । अनायासेनाप्येषु । इत्यादीवास्यादिक्रियाभिः सह सुखादेः सहार्थोस्ति । क्रियाविशेषणत्वविवक्षायां तु द्वितीयैव । अनायासमाप्ये । सुखं प्रोषुः । दुःखमूषुः॥
जात्योपोनु तिमीन्वप्रेस्थात्मकृत्या शठो बकः ।
अक्ष्णा काणः पदा खञ्जः खलाः प्रायेण मायिनः॥१५॥ १५. जात्या स्वभावेनोग्रः क्रूरस्तथा प्रकृत्या स्वभावेन शठो मा
१ ए प्रोखुर्दु:.
१ डी ले । शेषं स्प. २ सी डी न प्राप्ये स्थि. ३ सीनाप्रा. ४ डी प्ये । इ. ५ एफ दावस्या . ६ डी वाप्यादि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org