________________
२१६ व्याश्रयमहाकाव्ये
[मूलराजः] युवतयानूनाः । शङ्कुलया खण्डाः । गिरिणा काणाः । इत्यादौ हेतौ कृतभवत्यादिगम्यमानक्रियापेक्षया कर्तरि करणे वा तृतीया ॥
पुलिनानि सह क्षोमैः सरांसि नभसा समम् ।
ज्यौत्स्योमानामिषन्मेघाः साकं कैलाससानुभिः ॥११॥ ११. शरदि हि नदीतटानि प्रावृषेण्याम्बुपूरक्षालितत्वेन निर्मलानि तरङ्गितजलसंशोषेण तरङ्गितवालुकानि च स्युस्तथा शीतलत्वेन शरत्कालोचितत्वादावलनतरङ्गितानि श्वेतानि क्षौमाणि दुकूलानि लोकैः परिधीयन्ते । तथा सरांसि नभश्चातिनिर्मलानि स्युस्तथा ज्यौल्यो ज्योत्स्नान्विता निशा अहश्चातिसप्रकाशानि म्युस्तथा मेघा निर्जलत्वेन कैलाससानवश्च वार्षिकॉम्बुपूरधौतत्वेनातिश्वेताः स्युस्ततश्च पुलिनादीनि क्षौमाद्यैः सह सादृश्यादमिषन् । येप्येकत्र स्थाने समानगुणा: स्युस्ते मिथः स्पर्धन्ते । अमा सह ॥
बन्धकान्यधरैः स्त्रीणां पद्मानि युगपन्मुखैः । सार्थ हासैश्च कासा(शा?)नि स्पर्धा न्यक्षेण चक्रिरे ॥१२॥
१२. स्पष्टः । नवरं युगपत्सह । न्यक्षेण सह सामस्त्येन । शरदि ह्यारक्तानि बन्धूकर्पुष्पाणि विकसितानि पद्मानि श्वेतानि काशपुष्पाणि च जायन्तेतोधरादिभिः सह स्पर्धा । एतेन चाधरादिसमानैर्बन्धूकादिभिः शरत् कामिनीव भातीति व्यञ्जितम् ॥
१ ए कानि.
१ बी तजलवा. २ एफ नि क्षौ . ३ सी नि श्वेक्षौ. ४ एफ काम्बूपू. ५ एफ वेन श्वे. ६ बीण सा. ७ ए बी एफ पुष्पाणि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org