SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २२६ ध्याश्रयमहाकाव्ये [मूलराजः] स्मति सर्वक्रियासु योज्यम् । श्लाघास्थानशपथापह्नवान् कुर्वाणं स्त्रैणं कर्तृ आत्मानं ज्ञाप्यं जानन्तं पतिं प्रयोजयति स्मेत्यर्थः । पत्य इत्यत्र जातावेकवचनम्। इदमुक्तं स्यात् । पतीनपराधकत्वेन चाटुकशतैरंनुनयतोप्यवगणय्य मानावष्टम्भेनावस्थिता अपि शारदज्योत्स्नोदये कामोद्रेकाद्विगलितमानाः सत्यो नार्यः । श्लाघया वक्रोक्तिभङ्गीभिः स्वप्रशंसया स्थित्यानुरागादिसूचकस्थानविशेषेण शपथेन सपन्युद्भावितस्य मिथ्यारूपस्य व्यलीकस्य निरासेन सपत्न्युद्भावितं पतिभिः संभाव्यमानं व्यलीकं यद्यस्मासु कुत्राप्यस्ति तदा वयं मात्रादिशरीरं स्पृशाम इति प्रत्यायकवाक्येन वा निहवेन च प्राग्मानवशेन कृतस्यावज्ञाद्यपराधस्यापेलापेन चात्यन्तिकानुरागभक्तिरिरंसुतादिगुणोपेतं ज्ञाप्यमात्मानं पतीन् ज्ञापितवत्यः ॥ तापाय लोहिनी तडित् । इत्यत्र “उत्पातेन ज्ञाप्ये" [५९] इति चतुर्थी ॥ पत्ये श्लाघते । द्रुते । तिष्ठते । शपते । इत्यत्र "श्लाघगुस्था” [६०] इत्यादिना चतुर्थी ॥ पाकाय प्रयता जग्मुर्नीवारेभ्यस्तपस्विनः । चतुर्मासोपवासेपि नेयुामं पुराय वा ॥ २७ ॥ २७. पाकाय प्रयताः पक्तुमुद्यताः सन्तस्तपस्विनस्तापसा नीवारेभ्यो वनवीहीनाहतु ययुः । एतेनैषां स्वयंपाकित्वमसंग्रहश्वोक्ते । शरदि हि नीवारा बाहुल्येन स्युः । परं चतुर्पु मासेषु भवो “वर्षाका १ ए बी पश्विनः ।। २ ए युग्रामं. ................ ................................... १ए सु युज्यते श्ला. २ सी मुक्ते स्या . ३ सी रदाज्यो'. ४ सी डी वितं. ५ एफ पलपे. ६ बी पश्चिन. ७ सी श्चोक्तेः श. डी एफ 'श्वोक्तः श. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy