SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ [है० १.२.१०.] प्रथमः सर्गः । नय इह मर्त्यलोकेऽध्यादावृच्छन्ति यान्ति । तथा ख ऊर्ध्वलोके परार्छन्ति प्रकर्षण गच्छन्ति । तथाहिसद्मन्यधोलोके च प्रार्च्छन्ति । यतस्तपोमयैस्तपांसि प्रकृतानि कारणतया येषु तैस्तपोमयैः स्वतेजोभि: स्वकीयप्रभावैरनपेताः संयुक्ताः । तपःप्रभावादत्रत्यमुनीनां त्रिभुवनमपि गहाङ्गणमित्यर्थः । एवं च तपःप्रभावोपेतमहामुन्यवस्थित्यास्य पुरस्यातिपावित्र्यं सूचितम् ।। प्रार्छन्ति । परार्छन्ति । इत्यत्र “ऋत्यारुपसर्गस्थ" [ ९ ] इत्यार् ॥ उपसर्गस्येति किम् । इहर्च्छन्ति । येन धातुना युक्ताः प्रादयस्तं प्रत्युपसर्गसंज्ञास्तेनेह म स्यात् । प्रर्षयः ॥ पार्षयन्ति शमे धर्मधुरायां प्रर्षभन्ति च । अत्र प्रऋजवन्त्येव दुर्जनेष्वपि साधवः ॥ १५ ॥ १५. अत्र पुरे साधवः सज्जनाः शम इन्द्रियजयविषये प्रार्षयन्ति प्रकर्षेण ऋषय इवाचरन्ति । “कर्तुः विप्' [३.४.२५.] इति विप् । तथा धर्मधुरायां धर्मकार्यप्राग्भारविषये प्रर्षभन्ति प्रकर्षेण ऋषभा इवाचरन्ति यथा धवलाः शकटादिधुरं वहन्त्येवं धर्मधुरामिति । अतिधार्मिका इत्यर्थः । अत एव दुर्जनेष्वपि खलेष्वपि प्रऋजवन्त्येव प्रकर्षेण ऋजव इवाचरन्ति । हितमेव कुर्वन्तीत्यर्थः ॥ प्रार्षयन्ति प्रर्षभन्ति । इत्यत्र "नाम्नि वा" [१०] इति वा आर् ॥ केचित्तु पक्षे ह्रस्वत्वमपीच्छन्ति । प्रऋजवन्ति ॥ प्राल्कारायितवेणीकाः प्रलकारायितभुवः। प्रल्कारयन्ति खे दन्तज्योत्स्नयात्र मृगीदृशः ॥ १६ ॥ १ सी डी नेष्विव सा. १ एफ कीयैः प्र. २ सी डी प्रतापर. ३ एफ वं त. ४ सीडी °धे . ५ सी डी एफ पि प्र. ६ सी डी पें ऋ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy