________________
घ्याश्रयमहाकाव्ये [ मूलराजः] ऋणं कम्बलाणं वत्सरस्य वर्षस्य ऋणं वत्सराण दशानी रूपकादीनामणं दशाणं कुत्सितमल्पमज्ञातं वा दशाणं दशार्णकं वसनाणं वस्त्रस्य ऋणं वत्सतराणं तर्णकस्य ऋणं प्रकृष्टमृणं प्राणं वा । कस्य चिन्नास्तीति प्रत्येकमभिसंबध्यते । वाशब्दः पूर्वोक्तऋणार्णाद्यपेक्षया विकल्पार्थः । एतेनात्रत्यलोकानामैश्वर्यातिशयोक्तिः ॥
सुखेतोमऋणातश्च परम” रतीच्छया ।
अस्मिन् स्मरऋतः स्त्रीभिर्मुदतॊ रमते जनः ॥ १३ ॥ १३. अस्मिन्पुरे जनः स्त्रीभिः सह रमते । च: पूर्ववाक्यार्थापेक्षया समुच्चये। कीदृक्सन । अप्रऋणातः । न प्रकृष्टेन ऋणेन ऋतः पीडित ईश्वर इत्यर्थः । अतएव सुखेतोनुपमभोजनाच्छादनविलेपनादिजनितं सुखं प्राप्तोत एव च मुदा प्रीत्या कार्यते स्म ऋतः प्राप्तो यथा देवदत्तेन ग्रामो गतः प्राप्त इत्यर्थः । अत एव च स्मरऋत: कामेन पीडितोत एव च रतीच्छया निधुवनाभिलाषेण का परमर्तः । परमं प्रकृष्टं गाढं यथा स्यादेवमृतः पीडितः ।।
प्रार्णम् । दशार्णकम् । ऋणार्णम् । वसनार्णम् । कम्बलार्णम् । वत्सरार्णम् । वत्सतरार्णम् । इत्यत्र "ऋणे प्र" [ ७ ] इत्यादिना आर् ॥ समानानामिति बहुवचनस्य व्याप्त्यर्थत्वेनोक्तत्वादिहोत्तरत्र च ह्रस्वोपि भवति । प्रऋण ॥
ऋणातः। इत्यत्र "ऋते'' [८] इत्यादिना आर्॥ ह्रस्वोपि भवति । स्मरऋतः ॥ ऋत इति किम् । सुखेतः॥तृतीयाग्रहणं किम् । परमतः। समास इति किम् । मुदतः॥
इहर्च्छन्ति परार्छन्ति खे प्रार्छन्त्यहिसद्मनि ।
प्रर्षयोत्र स्वतेजोभिरनपेतास्तपोमयैः ॥ १४ ॥ १४. अत्र पुरे वर्तमानाः प्रर्षयस्तपोध्यानादिविशेषेण प्रकृष्टा मु१ एक नां ऋणं रू°. २ सी पूर्वे क्र. डी पूर्वेण ऋ. ३ सी एफ ते। च पू. ४ बी सी डी नितेन सु. ५ बी सी डी सुखेन प्रा. ६ सी डी प्राप्त'. ७ सीमानामि . ८ डी ति । अप्र. ९ सी दि आ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org