________________
१३
[ है० १.२.६.] प्रथमः सर्गः । ऋत रल्ल आदेशौ ॥ पक्षे । ऋति । भवृषभ । भर्तृऋषभाः ॥ लति । होतृतम् । मातृलतम् ॥ तौ च वा । पितृण। पित्लुतम् । पक्षे यथाप्राप्तम् ॥
कृकारः । होवृतम् । इत्यत्र "ऋस्तयोः" [५] इति लुऋतोः स्थाने यथासंख्यमृता लता च सह ऋकारः ॥
मत्तेभ । दृष्ट्वेव । मण्डितोद्यानेषु । निभोरवः । सर्वतु । महर्षयः । अत्रल्कार । इत्यत्र "अवर्णस्य" [६] इत्यादिना एदादयः ॥ अकारस्य ईत्-ऋत्-लन्निमित्तकानि आकारस्य ईत्-उत्-त्-ऋत्-लुत्-लून्निमित्तकानि चोदाहरणानि स्वयं ज्ञेयानि । एवमन्यत्राप्यदर्शितोदाहरणानि स्वयं ज्ञेयानि ॥
ननु “लत रल्ल ऋटभ्यां वा" [३] इत्यादिसूत्रापेक्षया "ऋलूति ह्रस्वो वा" [२] इति सूत्रस्य "ऋतो वा तो च" [४] इत्यस्यापेक्षयाँ "लत रल अलभ्यां वा" [३] इत्यस्य च प्राथम्यादेतदुदाहरणगर्भाणां दशमाष्टमनवमश्लोकानां पञ्चमश्लोकानन्तरमुपन्यासः कर्तुमुचितस्तदनु "ऋतो वा तौ च" [५] इत्युदाहरणगर्भयोः षष्ठसप्तमश्लोकयोः। एवं हि सूत्रक्रमोऽनुसृतः स्यात् । सत्यम् । लाघवार्थम् । एवं [पन्यासे क्रमप्राप्तं भर्तृषभेत्येतद् ऋति “समानानां तेन दीर्घः' [१] इति दीर्घोदाहरणम् "ऋतो वा तौ च" [४] इत्यस्य विकल्पोदाहरणं च युगपद्दर्शितं स्यात्तथा महर्षय इत्येतद् "ऋति इस्वो वा" [२] इत्यस्य विकल्पोदाहरणम् "अवर्णस्येवर्णादि' [६] इत्यत्रावर्णग्रहणेनाप्तस्य आत ऋति परे अर्कार्योदाहरणं च युगपद्दर्शितं स्यादिति सर्वमुपपन्नम्। एवमन्यत्रापि व्युत्क्रमोपन्यासकारणानि यथायथं सुधिया स्वयमभ्यूह्यानि ॥
इहर्णाण कम्बलाण वत्सरार्ण दशार्णकम् ।
वसनार्ण वत्सतरार्ण प्राण वा न कस्य चित् ॥ १२ ॥ १२. इह पुरे ऋणस्यावयवतया ऋणमृणाणं कलान्तरं कम्बलस्य १ डी वास्ति न.
१ एफ तृऋत°. २ सी दयश्च ।। ३ सी डी °नि चो'. ४ एफ त्-ऋत्-ऋ. ५ सी डी एफ °या "ऋत. ६ बी सी डी दीपों'. ७ ए बी त्यत्र व. ८ बी सी डी थं स्वधि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org