SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ [ है० २.२.४२.] तृतीयः सर्गः । २१३ विजयदशम्यां कुम्भमुत्पाट्य तेभ्यः स्थानेभ्यो राजादिभवनमागत्य राजादिमहायजमानान्प्राङ्मुखानुदङ्मुखान्वा शुचिवस्त्रान्फलहस्तान् शान्तिमत्रोच्चारपूर्व शान्तयेभिषिञ्चन्ति ॥ अधीयानैर्दिनमपि च्छन्दो नाग्राहि माणवैः। गोपीगीत्या हृदोद्धान्तैः समेन विषमेण च ॥७॥ ७. अपिभिन्नक्रमे । दिनं सकलदिवसं व्याप्याधीयानैरपि पठद्भिरपि माणवैर्बटुभिश्छन्दो जयदेवादि वेदो वा नाग्राहि नागमितम् । केन कृत्वा । समेन तुल्यलक्षणलक्षितपादचतुष्टयेन श्रियादिसमच्छन्दसा विषमेण च भिन्नलक्षणलक्षितपादचतुष्केण पदचतुरूंछ दिविषमच्छन्दसा च । यद्वा समेन लक्षणया सुखपाठ्यस्थानकेन विषमेण च दुःखपाठ्यस्थानकेन च । यतो गोपीगीत्या गोपीनां शाल्यादिरक्षिकाणां स्त्रीणां गानेन हेतुना हृदा कृत्वोद्धान्तैः शून्यचित्तैः । शून्यचित्तेन बहुपठ्यमानमपि हि शास्त्रं नागच्छति ॥ धान्येनार्थ इतीन्द्रस्य मासा पूर्व पयोमुचः। कौतुकेनार्थिनः पौरा स्तम्भेनाद्राक्षुरुत्सवम् ॥ ८॥ ८. धान्येनार्थः कार्यमिति हेतोर्य इन्द्रस्य स्तम्भेन महाध्वजपताकाकलितोन्नतस्थूणादण्डेनोपलक्षित उत्सवस्तं पौरी अद्राक्षुः । किंभूताः सन्तः । कौतुकेनार्थिनोभिलाषुकाः । केत्याह । पयोमुचो वर्षाऋतोः सकाशान्मासा मासेन पूर्वम् । 'पूर्व तु पूर्वजे । प्रागने श्रुतभेदे च' इत्यभिधानादग्रत आश्विनपूर्णिमायामित्यर्थः । इन्द्रमहोत्सवो हि श्वेताश्विनाष्टम्या आरभ्य पूर्णिमा यावद्विधीयते । तथा चावश्यकचूर्णावस्वाध्यायप्रस्ताव १ बी डी रा: स्त. १ सी श्चति ॥. २ ए डी दिवेंदो. ३ ए बी सी डी एफ °रू दि. ४ डी तमुत्स. ५ सी डी त्सवं पौ. ६ सी रा आद्रा. ७ बी त्यथेभि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy