SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २१२ याश्रयमहाकाव्ये [ मूलराज : ] दिनं रक्षन्त्यः । कोशं व्यस्तारयन् । अत्र "काल" [४२] इत्यादिना द्वि तीया ॥ भावादपीच्छन्त्यन्ये । गोदोहं नार्तिमयुः ॥ पारायणं नवाहेनाधीत्य क्रोशेन चाशिषम् । गोदोहेन द्विजा याज्यानभ्यषिञ्चन्यथाविधि ॥ ६ ॥ 3 ६. गोदोहेन गोदोहमात्रकालव्याघ्या यथाविधि वेदोक्तशान्तिमन्त्रोच्चारणादिविध्यनुसारेण याज्यान्नृपामात्यादियजमानान् द्विजा अभ्यषिञ्चन्नस्नपयन् । किं कृत्वा । नवाहेनाश्विनश्वेतप्रतिपदादिदिननवकस्य नवरात्रनाम्नो व्यायों पारोय्यते गम्यतेनेन पारायण वेदग्रन्थमधीत्याध्ययनेन समाप्य पूर्ण गुणयित्वेति यावत् । तथा क्रोशेन यावता कालेन कोशो गम्यते क्रोशप्रमाणक्षेत्रव्यात्या चाशिषं च सप्त"शतिकाभिधां सप्तशतप्रमाणां चण्डिकास्तुतिं चाधीत्य गुणयित्वा । शरदि हि पारायणिका द्विजा आश्विनश्वेतप्रतिपदि देवायतनेषु दर्भशलाकैकशतमयत्रह्ममूर्तेरग्रतः कुङ्कुमादिसुरभिद्रव्याढ्यजलभृतं कुम्भं स्थापयित्वा ततो महानवमी यावदभुक्ता ब्रह्मचारिणो भूशायिनः पारायणं कार्येन तथाधीयते यथा नवमे दिने पूर्णस्यात्तथा महाप्रभावत्वेन सप्तशतिकां च चण्डिकास्तुति महाशिषं गुणयन्ति । तथा च मार्कण्डेयपुराणे चण्डिकोक्तिः ।। शरत्काले महापूजा क्रियते या च वार्षिकी । तस्यां ममैतन्माहात्म्यमुच्चार्य श्राव्यमेव च ॥ १ ॥ 99 एतन्माहात्म्यं सप्तशतिकोक्तम् । तदेवं पारायणं महाशिषं चाधीत्य १ सी एफ न वाशि १ सी डी दोहनं ना° २ एफ् मप्ययुः ॥ या परी ५ ए सी ते तेन. ६ बी सी डी ८ एफ मा ९ सी एफ वमी या एतदेव परा. ११ ए एफ देव पा Jain Education International ३ सी डी 'धि देवोक्त. ४ बी णं देवग्र° ७ सी डी पूर्व गु. १० सीम् । एवेदे एवं डीम् । . For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy