________________
[है० २.२.४१.] तृतीयः सर्गः।
२११ सरोभिः सह । पिंगु बन्धने । अवसीयन्ते स्मावसितानि संबद्धान्यब्जान्यनु । अत्रानुहेतौ । ततः सरोभिः सह संबद्धैरव्जैहेतुभिः । यदिति क्रियाविशेषणम् । यत्सितच्छदा राजहंसा एयुरागताः । अर्थाच्छरदि। वर्षासु मेघभयान्मानसं गताः शरदं हि तत आगच्छन्ति । तेन हेतुना ज्ञायते । ऋतवोनु शरदमुप गङ्गामिवापगाः । अत्रानूपौ हीनाौँ । यथा गङ्गाया अन्या नद्यो हीनास्तथा शरदोन्य ऋतवः शिशिराद्या हीनास्तेषु सितच्छदागमनाभावात्। यो हि सितच्छदतुल्यैर्महापुरुषैराश्रीयते तस्मादन्ये हीनाः स्युः ॥
अब्जान्यन्वेयुः । सरोन्ववसितानि । इत्यत्र "हेतुसहार्थेनुना" [३८] इति द्वितीया ॥ अनु शरदम् । उप गङ्गाम् । इत्यत्र "उत्कृष्टेनूपेन" [३९] इति द्वितीया॥
शालीन्पक्कान्सप्रमोदं रक्षन्त्यो गोपिका दिनम् । क्रोशं व्यस्तारयन् गीतीनाति गोदोहमप्ययुः ॥५॥ ५. गोपिकाः शालीनां रक्षिकाः स्त्रियो दिनं सकलदिवसं व्याप्य क्रोशं क्रोशप्रमाणभूमिं व्याप्य गीतीर्गानानि व्यस्तारयन्न पुनर्गोदोहमपि यावता कालेन गौर्दुह्यते तावन्तमपि कालमति खेदमयुगताः । यतः पक्कान्निष्पन्नाञ् शालीन् कलमादीन् सप्रमोदं सहर्षे यथा स्यादेवं रक्षन्त्यः शुकादिभ्यः । सुपक्कशालिदर्शनोद्भूतप्रमोदपारवश्येन सकलं दिनमुच्चैःस्वरेण गायन्त्योपि क्षणमपि खेदं न गता इत्यर्थः । शरदि हि शालयः पच्यन्ते ।। शालीन्पक्वान् रक्षन्त्यः । इत्यत्र “कर्मणि" [४०] इति द्वितीया ॥ सप्रमोदं रक्षन्त्यः । इत्यत्र “क्रियाविशेषणात्" [४१] इति द्वितीया ॥
१ वी रदं व. २ डी रदि हि. ३ एफ राश्रिय'. ४ ए °स्माही .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org