SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ २१० व्याश्रयमहाकाव्ये [ मूलराजः ] अनु क्षेत्रं ग्रामान् दिश: क्षेत्राणि च लक्ष्यीकृत्य सस्यसंपदः प्रति नृपं राज्ञां भागे ग्रामपतिं परि ग्रामठकुराणां भागेनु कर्षकं हालिकानां भागे च बभुः प्राचुर्येण शुशुभिरे । शरदि हि कर्षकाणां धान्यानि निष्पद्यन्ते । तेभ्यो ग्रामभूस्वामित्वाद्वामपतयो भागं गृह्णन्ति । तेभ्यश्च देशपतित्वान्नृपा भागं गृह्णन्ति ॥ प्रतीभमिभमन्वश्वमश्वं गां गां च पर्यसौ । साधुः प्रति मदमनु पालनं बलितां परि ॥ ३ ॥ ३. असौ शरदभमिमं प्रत्यभिव्याप्य मदं प्रति मदग्रहणविषये साधुः साधुत्वप्रकार मापन्नाभूत् । तथाश्वमश्वमन्वभिव्याप्य पालनमनु रक्तस्रावादिचिकित्साकरणेन रक्तोद्बलनोद्भवरोगाद्रक्षणविषये साधुरभूत् । तथा गां गां च परि वृषं वृषैमभिव्याप्य वलितां परि बलिष्टताविषये साधुरभूत । शरदि हीभा माद्यन्ति । अश्राच रक्तस्रावं कृत्वा घृतदानादिना पाल्यन्ते । वृषभाश्च बलिष्ठाः स्युः ॥ भागिनि । प्रति नृपम् । ग्रामपतिं परि । अनु कर्षकम् ॥ लक्षणे । प्रति ग्रामम् । दिशं परि । अनु क्षेत्रम् ॥ वीप्स्ये । इभमिभं प्रति । गां गां परि । अश्वश्वमनु ॥ इत्थंभूते । मदं प्रति । बलितां परि । अनु पालनम् । इत्यत्र "भागिनि च " [३७] इत्यादिना द्वितीया ॥ 9 सरोन्ववसितान्यब्जान्यन्वेयुर्यत्सितच्छदाः । तेनर्तवोनु शरदमुप गङ्गामिवापगाः ॥ ४ ॥ ४. सरोनु । सर इत्यत्र जातावेकवचनम् । अनुः सहार्थे । ततः १ एच्छित '. १ ए लक्षीकृ . २ ए सी डी गे व ३ ए बी एफ् 'कावा'. ४ बी "भम. ५ ए बी ८ बी इति जा श्रावं. ६ बीम् । प ७ सी एफ बीप्से । इ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy