SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ याश्रयमहाकाव्ये तृतीयः सर्गः। ॥ अहम् ॥ अथ विजययात्रानुकूलं शरत्कालं पञ्चाशता श्लोकैवर्णयति । अथ द्यामभि शुभ्राभ्रा सुनीराभि सरः सरः। अभि दिग्विजयं साधुरुपतस्थे शरत्क्षणात् ॥ १॥ १. अथ मन्त्रावसरानन्तरं क्षणाद्रारिष्वभिषेणनविषयचिन्तासमकालमेव शरदुपतस्थे विजृम्भित । किं भूता । द्यां गगनमभिलक्ष्यीकृत्य शुभ्राभ्रा विशदमेघा । एतेनाभ्राणामवार्षुकत्वेनादित्यातपनिवारकत्वेनं चास्याः सुखदतोक्ता । तथा सर: सरोमि तडाँगं तडागमभिव्याप्य सुनीरा निर्मलजला । एतेन पेयजलत्वोक्तिः । अत एवाभि दिग्विजयं साधुर्विजययात्राविषये साधुत्वप्रकारमापन्ना । एतेन राज्ञो ग्राहरिपुविषयाभिषेणनमनोरथस्य शीघ्रभाविनी सफलतोक्ता । लक्षणे । द्यामभि ॥ वीप्स्ये । अभि सरः सरः॥ इत्थंभूते । अभि दिग्विजयम् । इत्यत्र “लक्षण” [३६] इत्यादिना द्वितीया ॥ वभुः प्रति नृपं ग्रामपतिं पर्यनु कर्षकम् । प्रति ग्रामं दिशं पर्यनु क्षेत्रं सस्यसंपदः ॥२॥ २. नृपमित्यादिषु सर्वेषु जातावेकवचनम् । प्रति ग्रामं दिशं परि १ सी जयाया. २ ए सी द्राहारि . ३ सी डी पये चि. ४ सी डी "ता यां. ५ ए सी डी एफ लक्षीकृ. ६ ए सी डी न वास्याः. ७ सी डी डागम. ८ सी डी एफ वीप्से । अ'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy