SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २०८ व्याश्रयमहाकाव्ये [ मूलराजः ] Ε सर्वेषु प्रदेशेषु पुलकभृत् । क्व सति । भूभृतो गिरीनुपर्युपरि वनानि काननान्यध्यध्यम्बुधीनधोधः सर्वत्र क्रियाविशेषणादम् । सप्तमी वा । द्विष इत्यत्रेतिशब्दोध्याहार्यः । ततोयमर्थः । भूभृद्वनाम्बुधीनां प्रत्यासन्नं द्विषो ग्राहरिष्यादिशत्रवो वर्तन्त इत्येतस्मिन्नमुना जैम्बकेनाभिगदिते भणिते । यद्वा भूभृद्वनाम्बुधीनां समीपे वर्तमानान्द्विषः शत्रूनभिलेंक्ष्यीकृत्यामुना गदिते पूर्वोक्तरीत्या भैणने द्विषन्नामश्रवणोद्भूतवीर रसोल्लासवशेन सर्वाङ्गीणरोमाञ्चाञ्चित इत्यर्थः । तथा मद्दोर्दण्डयोः सतो: केद्यापि शत्रव इत्यहङ्कारेणोत्पन्नरणकण्ड्डा भुजावुभयतो दृशं क्षिपन् द्वयोरपि भुजयोरुपरि दृष्टिं व्यापारयन् । अथो भिन्नक्रमे नृप इत्यतो ज्ञेयः । अथो नृपोत्थानानन्तरं तं नृपमभित उभयपार्श्वयोः स्थितौ सन्तौ तौ जम्बर्कजेहुलावुदुस्थाताम् । उदस्थादित्येवार्थवशाद्दिवचनान्ततया योज्यम् । तथा चो भिन्नक्रमे जन इत्यतो ज्ञेयः । तान्नृपजेम्बकजेहुलान्परितः सर्वतो मत्रमण्डपबहिः स्थितो जनश्च परिवारलोकश्वोत्थितः । नृप उदस्थादित्यनेनाप्रेतनसर्गे ग्राहारिं प्रति नृपस्य प्रस्थानं वर्णयिष्यत इति सूचितम् ॥ १२ 1 अधोधोम्बुधीन् । अध्यधिवनानि । उपर्युपरि भूभृतः । इत्यत्र “द्वित्वेध: " [३४] इत्यादिना द्वितीया ॥ 1 वपुः सर्वतः । भुजावुभयतः । तमभितः । तान्परितः । इत्यत्र "सर्वोभय" [३५] इत्यादिना द्वितीया ॥ पृथ्वी छन्दः ॥ ॥ इति श्रीजिनेश्वरसूरिशिष्य लेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासनध्याश्रयवृत्तौ द्वितीयः सर्गः समर्थितः ॥ १० क्षीकू ९ १ सीम् । स्वस २ ए एफ जम्बुके · ३ एम्बुद्वीस ४ए एफू 'ल. ५ डी भणिते दि. ६ डी ङ्गीणं रो ७ बी रं नृ ८ एफ तौ जम्बुक'. • • हु . १० सी डी 'जेहला. ११ एफू जम्बुक १२ सी डी रिं तं प्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy