SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ [है० २.२.३३.] द्वितीयः सर्गः । २०७ आभीरी आभीरजातिक्षत्रिया ग्राहरिष्वादयस्तांस्तेन लक्ष्यीकृत्य चेयदि त्वं समराय चलितः कृतप्रयाणस्तदा हा प्राणेशान् कष्टं वल्लभानां मृत्युकालावाप्तेः । अत एव विधिं दैवं धिग् गर्हामहे । इत्येवं प्रकारेण वैरिस्त्रैणानि भाविस्वपतिमरणनिश्चयेन प्रलपेयुराक्रन्देयुरित्येवं मां प्रतिभाति मम प्रतिभासते । इत्यहं जानामीत्यर्थः । ननु ग्राहरिष्वाद्यरयो - प्यतिशूरास्तत्तान्प्रति मयि रणायोद्यतेपि तत्पत्नीनां स्वभर्तृमृत्यु निश्च येन विलापः कथं त्वया विमृश्यत इत्याह । यतस्त्वं पार्थमतिस्थान्ना वृद्धोर्जुनस्यातिक्रमेण बलेन स्फीत: । अर्जुनादपि बलिष्ठ इत्यर्थः ॥ नृपेन्द्र । इत्यत्र " आमन्त्र्ये” [३२] इति प्रथमा || मित्रं समया । दुर्गं निकषा । हा प्राणेशान् । धिग्विधम् । अन्तरा ते । अवनीं दिवमन्तरेण । पार्थमति । येन सुराष्ट्राम् । तेनाभीरान् । इत्यत्र “गौजात्" [ ३३ ] इत्यादिना द्वितीया ॥ बहुवचनादन्येनापि युक्ताद्भवति । मां प्रतिभाति ॥ धातुसंबद्धोत्र प्रतिस्तेन "भागिनि च " [३७] इत्यादिना न सिध्यति । मत्तमयूरं छन्दः ॥ अथ मन्त्रमुपसंहरन्नाह | उपर्युपरि भूभृतोध्यधि वनान्यधोधोम्बुधी I द्विषोभिगदितेमुना पुलकभृद्वपुः सर्वतः । भुजावुभयतः क्षिपन् दृशमथो उदस्थान्नृपः 9 स्थितौ तमभितश्च तौ परित उत्थितस्तान् जनः ॥ ११० ॥ ११०. नृपो मूलराज उदस्थात् । कीदृक्सन् । वपुः सर्वतोङ्गस्य १ एफ् इत्याचार्य श्री हेमचन्द्राचार्यविरचिते शब्दानुशासनद्याश्रयमहाकाव्ये प्रभातमन्त्रवर्णनो नाम द्वितीयः सर्गः समाप्तः ॥ १ एफू राजा. २ ए लक्षीकू . ३ एफ् विधम् । ४ ए गिनीवेत्या. सी 'गिनवेत्या. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy