SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ २०६ घ्याश्रयमहाकाव्ये [ मूलराजः] एकः । द्वौ । बहवः । इत्यत्र "नान्नः" [३१] इत्यादिना प्रथमा विभक्तिः ॥ अथैवमुक्तदुर्गमित्रसहायसंपदलेन ग्राहारेरतिबलिष्ठतां वदन्महाराजस्यैवायं साध्यो नान्यस्येति निर्धारयति । मित्रं नृपेन्द्र समया निकषाथ दुर्ग ___ यः सोप्यलं भवति किं पुनरन्तरा ते । तत्तं निहन्तुमवनी दिवमन्तरेण त्वामन्तरेण न हि संप्रति कश्चिदीशः ॥ १०८ ॥ १०८. हे नृपेन्द्र यः शत्रुर्मित्रं समया मित्रसमीपे स्यादथाथ वा दुर्ग निकषा पर्वताब्ध्यादिदुर्गमस्थानसमीपे स्यात्सोप्यास्तां तावदेतद्वयसमीपस्थ एकतरसमीपस्थोप्यलं समर्थों भवति किं पुनस्ते मित्रदुर्गे अन्तरा। भित्रदुर्गयोर्यो मध्यवर्ती स नितरां बलिष्ठ इत्यर्थः । तत्तस्माद्धेतोस्तं ग्राहारि निहन्तुमवनी दिवमन्तरेण द्यावापृथिव्योमध्ये त्वामन्तरेण विना संप्रत्यस्मिन्काले न कश्चित्कोपि सैन्यपत्यादिक ईश: समर्थः । वसन्ततिलका छन्दः ॥ योयं मित्रदुर्गसंपन्यामतिबलिष्ठतया कस्याप्यन्यस्यासाध्यः स कदा चिन्ममाप्यसाध्यः स्यादिति राजा मा शकिष्टेत्याह । तेनाभीरान्येन मुराष्ट्रामतिद्धः पार्थ स्थाना त्वं चलितश्चेत्समराय । हा प्राणेशान्धिग्विधिमेवं प्रलपेयु वैरिटेणानीति विभो मां प्रतिभाति ॥ १०९ ॥ १०९. हे विभो स्वामिन्सुराष्ट्रां सुराष्ट्रादेशं येन लक्ष्यीकृत्य य १ बी महासं. २ एफ हारिर'. ३ एफ दथवा. ४ एफ ईदृश:. ५ एफ राष्ट्रदे'. ६ एफ लक्षीकृ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy