SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ २१४ व्याश्रयमहाकाव्ये [मूलराजः] उक्तम् । इन्दमहो आसो य पुन्निमाए हवइत्ति ॥ भविष्योत्तरपुराणेपि शारदमहोत्सववर्णनावसर उक्तम् ॥ श्रवणादिभरण्यन्तं दिनानामष्टकं नृपः । शुभाथै सर्वलोकानां कुर्यादिन्द्रमहोत्सवम् ॥ १ ॥ श्रवणभरणीनक्षत्रे ह्याश्विनश्वेताष्टमीपूर्णिमोद्देश एव चन्द्रेण युज्यते। अत एवाश्विनपूर्णिमाया आश्वयुजीति नाम । स चेन्द्रोत्सवः प्रचुरधान्यनिष्पत्त्याद्यर्थं क्रियते । तथौ च वराहमिहरसंहितायामैन्द्रं वचः । येषु देशेषु मनुजा भक्तिभारपुरःसराः । जनयिष्यन्ति वर्षान्ते मया दत्तं महाध्वजम् ॥ १॥ तेषु देशेषु मुदिताः प्रजा रोगविवर्जिताः । प्रभूतान्ना धर्मयुक्ता वृष्टमेघा महोत्सवाः ॥ २ ॥ भविष्यन्ति सुवेषाश्च सुभाषाश्च सुभूषणाः ॥ इत्यादि । मित्रैर्मासावरैर्वाचा निपुणैः सह गोकुले। गुडेन मिश्र वेषेण श्लक्ष्णा गोपाः पयः पपुः ॥९॥ ९. स्पष्टः । किं तु वेषेण श्लक्ष्णाः सूक्ष्मा अकर्कशा वा गोकुलस्वामित्वाच्छरद उष्णत्वाञ्च परिहितसूक्ष्ममृदुवस्त्रा इत्यर्थः । गोपा गोष्ठाधिकृता मासा मासेनावरैर्लघुभिरात्मसमानैरित्यर्थः । शरदि हि पित्तोद्रेकः स्यादितीक्षुविकारमिश्रपयःपानश्वेतसूक्ष्मांशुकपरिधानादिशैत्यक्रिया पथ्यत्वाद्विधेया । उक्तं च । शरत्काले स्फुरत्तेज:पुञ्जस्यार्कस्य रश्मिभिः । तप्तानां कुप्यति प्रायः प्राणिनां पित्तमुल्बणम ॥ १ ॥ ततश्च शालीन्दुरुग्घनाम्बूनि श्वेतसूक्ष्मांशुकानि च । क्षीरमिक्षुविकाराश्च सेव्याः शरदि भूरिशः ॥ २ ॥ १एफ त्सवः । श्र. २ ए °स्तवप्र. ३ एफ था व. ४ ए हरिसं. ५ बीणाः शूक्ष्मा. ६ बी तसुशूक्ष्म एफ तसूक्ष्माव. ७ एम् । शा. ८ ए तशूक्ष्मा . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy