________________
२०४
व्याश्रयमहाकाव्ये . [ मूलराजः] त्सवो दीपालिका स्यात्तथा कच्छात्कच्छदेशाद्गतेष्वष्टसु योजनेषु सुराष्ट्री सुराष्ट्रादेशो भवति तत्तस्माद्धेतो: फुल्लात्फुल्लाख्यान्महाराजात्प्रभूतो जातो लक्षाख्यः सखास्य ग्राहारेन दूरे । कीदृक् । उया पृथ्वीविषये ये भूमिपतयस्तेभ्यः सकाशात्स्थाम्ना बलेनाधिकः ॥ । __तथापि द्वावेव शत्रू कृतौ । तौ चानेकमहाराजान्वितः सैन्यपतिरेव निग्रहीष्यति तत्किं स्वयमास्कन्दनेनेति न वाच्यमित्यनेकान् द्विप आह ॥ येद्रौ समुद्रे च नृपा दधानाः क्षत्रत्वमात्मन्युपिता दृगग्रे । तेप्यस्य संवर्मयितार आजौ नैको न च द्वौ बहवो द्विषस्तत् ॥१०७॥
१०७. आत्मनि स्वे क्षत्रत्वं क्षात्रधर्म दधानाः । शौर्यादिक्षत्रियगुणान्विता इत्यर्थः । ये नृपा अद्रौ ये समुद्रे चाब्धिसमीपे चोषिता: स्थिताः सन्ति । ये चास्य ग्राहारेर्डगने दृष्टिपुर उषिताः सन्ति । सदा समीपस्था येमुं सेवन्त इत्यर्थः । तेपि । न केवलं स्वयं लक्षश्चेत्यप्यर्थः । अस्य ग्राहारेराजौ रणनिमित्तं संवर्मयितारः संनक्ष्यन्ते । तत्पक्षत्वात्तेपि त्वया सह योत्स्यन्त इत्यर्थः । तत्तस्मान्नको ग्राहारिट् िन च द्वौ ग्राहारिलक्षौ द्विषौ किं तु बहवोनेके द्विषः ।
"अपायेवधिरपादानम्" [२९] तत्रिविधम् । निर्दिष्टविषयम् । उपात्तविषयम् । अपेक्षितक्रियं च । निर्दिष्टविषयं यथा । निकुञ्जादभिसृत्य ॥ यत्रं धातुर्धात्वन्तरार्थाङ्ग स्वार्थमाह तदुपात्तविषयम् । यथा यूथाद्धन्ति । अत्र ह्याकर्षणाङ्गे हनने हन्तिर्वतते ॥ अपेक्षितक्रियं यथा । मृगेभ्य उद्दामतमम् । अपायश्च कायसंसर्गपूर्वको बुद्धिसंसर्गपूर्वको वा विभाग उच्यते । तेन यानान्मा विरम । यानान्मा
१ एफष्टयो'. २ डी एफ ष्ट्रादे'. ३ बी त्रु । तौ. ४ एफ ताः स. ५ एफ म् । उपे'. ६ बीत्र तु धात्व. ७ ए °न्ति वर्त'. ८ एफ ते । उपे. ९ ए वा वा वि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org