SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ (है० २.२.२८.] द्वितीयः सर्गः। २०३ दुःखहेतुरिदमात्मन इति विरज्य मा निवर्तस्व । तथा मा प्रमाद्य यत्कार्य तद्दण्डनेतैव करिष्यतीत्यालस्यं कृत्वा मा निवर्तख । तथा मा जुगुप्सस्व नीचोयं स्वयमास्कन्तुमनुचित इति निन्दित्वा मा निवर्तस्व ।। ननु साहाय्यकृन्मित्रसंपादिरहितोयं सैन्येशेनापि सैन्यैरवष्टब्धो दुर्गस्थोपि निरुद्धधान्यादिप्रवेशस्थानः सुसाध एव तत्किं तत्साधनाय मम स्वयमभिषेणनेनेति राजा मा स्म वददित्यस्य महामित्रसंपदमायाह ॥ युधोपराजिष्णुररेरभीरुखाता तुरुष्कानपि कच्छदेशात् । कुतोप्यनन्तर्दधदस्य सोस्ति लक्षः सखा जात इवैकमातुः ॥१०॥ १०५. सोनेकावदातैः प्रसिद्धो लक्षो नाम कच्छदेशस्वाम्येकमातुर्जात इव सहोदर इवातिस्निग्धः सखास्य ग्राहारेरॅस्ति । कीदृक् । अरेरभीरुरत्रस्नुरत एव युधो रणादपराजिष्णुर्दुःखेयं युदिति तामसहमानोनिवर्तिष्णुरत एव च कच्छदेशात्तुरुष्कानप्यासतामन्ये नृपाः सर्वजगद्भयंकरान्म्लेच्छानपि त्राता रक्षन्नत एवं च कुतोपि कस्मादप्यनन्तर्दधदनिलीयमानोनश्यन् ।। ननु सखास्य दूरे भविष्यति ततः सन्नप्यसत्प्राय एवेति न वाच्यमित्याह । कच्छात्सुराष्ट्राष्टसु योजनेषु दीपोत्सवः पक्ष इवाश्वयुज्याः। फुल्लात्प्रभूतो न तदस्य दूरे स्थानाधिको भूमिपतिभ्य उाम् १०६ १०६. यथाश्वयुज्या आश्विनपूर्णिमाया आरभ्य पक्षे गते दीपो१ बी दा र. २ ए ‘वन्धो'. ३ डी मा वादीदि. ४ सी र संपन्या ॥ नवो. त्तरशततमश्लोकावतरणस्थित 'संपद्भ्याम्' इत्येतत्पदात्प्राक्तनो ग्रन्थो नास्ति. ५ एफ ष्णुदुःखे. ६ एफ व कु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy