________________
२०२
व्याश्रयमहाकाव्ये
[ मूलराज : ]
जयाय चेश्वं स्पृहयैर्यशो वा लोकाय कुप्यन्तमसूयमानम् । दुद्यन्तमन्तममुं स्वयं तत्प्रद्रोग्धुमुत्कुध्य कृताभियोगः ॥ १०३ ॥
१०३. जयाय चेत्वं स्पृहयेर्यशो वा जयं कीर्ति वा यदीच्छसि तत्तदामुं ग्राहारिं प्रद्रोग्धुं जिघांसितुं स्वयं कृताभियोगो विहितोद्यमः संस्त्वममुमेवोत्क्रुध्योत्क्रोधविषयं कुरु मा सहस्व । तं स्वयमभिषेणयेत्यर्थः । कीदृशम् । लोकाय कुप्यन्तममृष्यन्तमसूयमानं लोकस्यैव गुणेषु दोषानाविष्कुर्वाणं दुह्यन्तमपचिकीर्षन्तमीयन्तं लोक संपत्तौ चेतसा व्यारुष्यन्तम् ॥
जयाय यशो वा स्पृहयेः । इत्यत्र "स्पृहेर्व्याप्यं वा " [२६] इति वा संप्रदानम् ॥
लोकाय कुप्यन्तं दुह्यन्तमीष्यन्तमसूयमानम् । इत्यत्र " क्रुद्रुह" [२७] इत्यादिना संप्रदानम् ॥
अमुमुक्रुध्ये | अमुं प्रद्रोग्धुम् । इत्यत्र 'नोपसर्गात्कुहा" [२८] इति न संप्रदानम् ॥
अथ दृष्टान्तोक्त्या राज्ञा तस्य स्वयमास्कन्दनं द्रढयति । सिंहो निकुञ्जाद भिसृत्य यूथाद्धन्तीभमुद्दामतमं मृगेभ्यः । यानात्स्वयं मा विरम प्रमाद्यं मा मा जुगुप्सस्व जगत्ततोवन् ॥ १०४॥
१०४. सिंहो निकुञ्जद्वनगह्वरादभिसृत्य निर्गत्य मृगेभ्य आरण्यपशुभ्य उद्दामतमं बलादिनोत्कृष्टतमभिभं यूथान्मृगगणादाकृष्य हन्ति तस्मात्त्वमपि ततो ग्राहारेर्जगदन् रक्षन्सन् स्वयं यानान्मा विरम
१ ए ये यश.
२ ए दुद्यन्त ३ एफ् द्य त्वं मा जु..
१ एफ् 'विः कुर्वा २ एफ् ध्यः । अ ३ एफ नं दृढ ४ ए वरन्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org