________________
[है० २.२.२५.] द्वितीयः सर्गः ।
२०१ अमुं ग्राहारिमहोरात्रम् । एतेन भत्त्यतिशयोक्तिः । भजन्ति । एतेन वलसंपदतिशयोक्तिः । तत्तस्मात्तद्वधाय ग्राहारिहतये क्रोशाञ् शतं क्रोशशते दूरदेश इत्यर्थः । एतेन यदि सेनानीः कथमपि तेन भज्येत तदानस्थैर्भवद्भिरस्य साहाय्यं कर्तुं दुःशकमित्युक्तम् । सैन्यपतिं दिशनाज्ञापयंस्त्वं दात्रेण तरुं लुनासि यथा महत्वात्तरुर्दात्रेण च्छेत्तुं न शक्यते तथा त्वद्दण्डेशेनापि ग्राहारिरित्यर्थः ॥
अभिनिविश्य पार्श्वम् । इत्यत्र “वाभिनिविशः" [२२] इति कर्म वा ॥ व्यवस्थितविभाषेयम् । तेन व चित्कर्मसंज्ञैव । क चिदाधारसंज्ञैव । शास्त्रेभिनिविष्टै ॥
काल । त्रुटिमुदास्ते निशि समुत्थितम् । अध्वा । योजनमस्ति क्रोशेस्ति । भाव । गोदोहमुदास्ते शालिपाकेप्यशायिनम् । देश । नरकमास्यते स्वपुर्या वसतः । इत्यत्र “कालावं" [२३] इत्यादिना कालादिराधारः कर्म वा । अकर्मच । यत्रापि पक्षे कर्मसंज्ञा तत्राकर्मसंज्ञापि वा भवतीत्यर्थः । तेन नरकमास्यते इत्यत्र सकर्मकत्वाद्वितीया । अकर्मकत्वाच्च भाव आत्मनेपदम् ॥ अन्ये तु सकर्मकॉणामकर्मकाणां च प्रयोगे कालाध्वभावानामत्यन्तसंयोगे सति नित्यं कर्मत्वमिछन्ति । भर्जन्त्यहोरात्रममुम्।क्रोशान्सैन्यपतिं दिशन् । गोदोहमुथममत्यजन्तः॥ दात्रेण तरुं लुनासि । इत्यत्र "साधक" [२४] इत्यादिनी करणसंज्ञा ॥ तद्वधाय दिशन् । इत्यत्र “कर्माभि" [२५] इत्यादिमा संप्रदानसंज्ञा ॥
१ डी शतदू. २ ए बी सी डी मैं । व्य०. ३ डी ष्टः । का. ४ ए सी ध्वत्या. बी एफ ध्वभावेत्या . ५ एफ म । अ. ६ एफ पि भ. ७ एफ काणां च. ८ ए जन्ति हो . ९ बी जन्तम् । दा. १० बी ना कार'. ११ सी संज्ञा ।..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org