________________
व्याश्रयमहाकाव्ये
[ मूलराजः ]
अथ प्रतिज्ञातं सत्यमेव वृत्तनवकेन वदन्प्राग्ग्राहारेदुर्गसंपद्बलसंप दादिबलिष्ठतया दुःसाध्यत्वप्रतिपादनेन ग्राहारिं हन्तुं ससैन्यं दण्डनेतारं प्रेषयेति जेहुलवाक्यमाक्षिपंस्तस्य स्वयमास्कन्द्यतां वृत्तत्रयेणाह ॥ क्रोशे गिरिर्योजनमब्धिरस्य दुर्गं स्वपुर्या वसतोस्त्यमुं तत् । समुत्थितं निश्यपि शालिपाकेप्यशायिनं मा स्म मथाः सुसाधम् १०१
२००
I
1
६
१०१. अस्य ग्राहारे: स्वपुर्या वामनेस्थत्यां वसतः क्रोशे गिरिरुज्जयन्ताद्रिस्तथा योजनं क्रोशचतुष्टयेब्धिश्च दुर्गे दुर्गस्थानमस्ति । गिरिरविश्वास्यातिनिकटं दुर्गमस्तीत्यर्थः । तत्तस्माद्धेतोरमुं ग्राहारिं सुसाधं सुखजेयं मा स्म मथा मा ज्ञासीः । कीदृशं सन्तम् । निश्यपि समुत्थितमुद्यतम् । अत एव शालिपाकेपि यावता कालेन शालिः पच्यते तावत्यपि काले । शालिर्हि स्तोककाले पच्यत इति स्तोककालमपीत्यर्थः । अशायिनम् । दुर्गबलयुक्तत्वात्सदोद्यतत्वाच्च दुःसाधं जानीहीत्यर्थः । क्रोशे योजनमित्यत्रैकवचनमस्य गिरिसमुद्रदुर्गयोरतिनैकट्यज्ञापनार्थम् । अन्यथा वामनस्थलीतो गिरेः क्रोशतकेच पञ्चयोजन्यां वर्तमानत्वातदनुपपन्नं स्यात् । यद्वा वामनस्थल्यां तदा वास्तव्यानां तथा बाहुल्यात्तथा वासाचैतदुपपन्नम् । यदि पुनर्प्राहारैरन्या का चिद्राजधानी यस्याः सकाशात्क्रोशे गिरियजने चाब्धिस्तां न वेद्मि ॥ गोदोहमप्युद्यममत्यजन्तो भजन्त्यहोरात्रममुं नृपास्तत् । क्रोशान शतं सैन्यपतिं दिशंस्तद्वधाय दात्रेण तरुं लुनासि ॥ १०२ ॥ १०२. गोदोहमपि गोदोहकालमप्युद्यममत्यजन्तः सन्तो नृपा
30
४
१ बी 'न्यं ने. २ सी व डी 'तद्वयेनाह. ३ बी 'नस्थाल्यां. साध्यं जा. ५सी क्रोशा यो डी क्रोशो यो ६ एफ् गिरि: क्रो. ७ एफ् ● केष्वब्धिश्च ८ बी रेन्या ९ए शेगिंरियोज १० बी डी ने वाधि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org