SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १९९ सभामावसताम् । [है० २.२.२१.] द्वितीयः सर्गः । कीर्तेः प्रदीव्यन्ति कुलं प्रदीव्यन्ति । इत्यत्र "उपसर्गादिवः" [१७] इति वा कर्म ॥ उपसर्गादिति किम् । आत्मोन्नतेर्दीव्यन्ति ॥ अत्र "न" [१८] इत्यनेन नित्यं कर्मसंज्ञा न ॥ फूटं दीव्यन्ति । चटुना दीव्यन्ति । इत्यत्र “करणं च" [१९] इति दीव्यतेः करणं कर्म करणं च । तेन कर्मत्वे द्वितीया करणत्वे च तृतीया ॥ . चेतोधिशयीत । पापमधिष्ठिताः । लोभमध्यासिताः । इत्यत्र “अधेः शी" [२०] इत्यादिना कर्म ॥ . समीपमुपोषितः । सदोनूषितवान् । मौलिमधिवसेत् । सभामावसताम् । इत्यत्र “उपान्व्" [२१] इत्यादिना कर्म ॥ अथासत्यस्य दोषान्सत्यस्य च गुणानुक्त्वा सत्यमेव वक्तुमुपक्रमते॥ तत्तेर्थशास्त्रेभिनिविष्टबुद्धेर्वदाम्यमिथ्याभिनिविश्य पार्श्वम् । गोदोहमीशे त्रुटिमप्युदास्ते य आस्यते द्रामरकं हि तेन ॥१०॥ १००. यस्मात्सत्यासत्ये पूर्वोक्तगुणदोषोपेते तत्तस्माद्धेतोरर्थशास्त्र नीतिशास्त्रेभिनिविष्टबुद्धेः क्षुण्णमतेः सतस्ते तव पार्श्वमभिनिविश्याश्रित्यामिथ्या सत्यमहं वदामि । वर्तमानकालनिर्देशोधुनैव वदामीति भणनस्यातिशैव्यज्ञापनार्थः । शीघ्रवदने हेतुमाह । हि यस्मादीशे स्वामिनि स्वामिकार्यविषय इत्यर्थः । गोदोहं यावता कालेन गौर्दुह्यते तावन्तं कालमित्यर्थः । त्रुटिमपि। प्रयत्नेन विमुक्तस्य यवस्य पततोम्बरात् । द्वियवं यावदध्वानं यः कालः स त्रुटिर्मतः ॥ इत्यतिसूक्ष्मकालमपि यो भृत्य उदास्त उपेक्षते तेन द्राग् नरकमास्यते स्थीयते स्वामिनो द्रोहस्येवोपेक्षाया अपि महापापहेतुत्वात् ॥ १ सी हस्यैवो'. २ सी डी पापे हे'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy