SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ [ है० २.२.९.] द्वितीयः सर्गः। १९५ ९३. तं ग्राहारि छेत्तुं निदेशैयुष्मान्प्रतिभणनैरलं सृतम् । कीदृशं तम् । उर्वी पृथ्वी संतापयन्तं प्रभूतकरादिभिरुपद्रवन्तं ज्वरयन्तं निनिमित्तसर्वस्वापहारादिभिः पीडयन्तं च । अत एवामयं रोगतुल्यम् । ज्वराद्यामयोपि हि संतापयति ज्वरयति चाङ्गभङ्गादिना बाधते च । यस्मात् । किलेत्याप्तवादे । भुव उजासयत्पातेन हिंसदद्रिचक्रमुज्जासयितुं विदारयितुमिन्द्रः केन नियुक्तो व्यापारितो न केनापीत्यर्थः । अथासौ संप्रत्येव निग्राह्य इति दर्शयन्नाह । लोकस्य पिंषन्तमरि ह्यनुनाटयन्पो नाटयति क्षमायाः। पेष्टा न चेत्तामसि तत्प्रजानामुत्क्राथयन्तं ऋथयैनमद्य ॥९४॥ ९४. हि यस्माल्लोकस्य पिंपन्तं हिंसन्तमरिमनुन्नाटयन्नहिंसन्नृपो नराणां पाता राजा क्षमाया मह्या नाटयति हिनस्ति । सर्वशक्तिमत्त्वेन यथार्थाभिधानः सन्नृपो यदि पृथ्वीविध्वंसिनो हि शत्रून्न निगृह्णाति तदा वस्तुतः स एव पृथ्वी विनाशयतीत्यर्थः । तत्तस्माच्चेद्यद्यसि त्वं तां क्षमा न पेष्टा न हिंसिता तदा प्रजानामुत्काथयन्तं हिंसन्तमेनं ग्राहारिमद्य सांप्रतमेव ऋथय विनाशय मा कालविलम्ब कार्षीरित्यर्थः । अथैवमेतद्वधं हेतुवादेन द्रढयित्वावसरप्राप्तैर्महापुरुषदृष्टान्तैमूढयन्नाह ॥ जम्भं यथाजीजसदुग्रधन्वा मधुं यथानीनटदब्धिशायी । पुरं यथाचिक्रथदीश एवं निघ्नन्तमुळः प्रणिजह्यमुं त्वम् ॥९॥ ९५. यथोग्रधन्वेन्द्रो जम्भं जम्भाभिधं दैत्यमजीजसजधान । यथा चाब्धिशायी विष्णुर्मधुं मधुदैत्यमनीनटैद्धिंसितवान् । यथा चेशो १ डी भिः कृत्वोप. २ ए सी न्तं वात. ३ सी डी ति चा. ४ एफ °शती. ५ ए सी डी एफ न दृढ. ६ बी एफ तैदृढ'. ७ सी था वाब्धि. ८ एफ टद्विध्वंसि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy