________________
१९४
व्याश्रयमहाकाव्ये
[ मूलराज : ]
माचारं स्मृतेर्वान्यायिनो निग्राह्या इत्याद्युपदेशरूपाया राजधर्मसंहितायाश्चेत्स्मरसि तत्तदेह ग्राहारौ विषये रुषां कोपानां दयस्व गच्छ कोपं कुर्वित्यर्थः । क्षमों मा क्षान्ति मा दयस्व |
तद्वधाय नाहं शक्त इति राजा मा ज्ञासीदिति तद्वधशक्तौ हेतुमाह । त्वमेव तस्येशिष इत्यदिदीशान ईद त्वां तदुपस्कुरुष्व । वलं धियां चास्य वधे रुजेद्धि राज्यस्य राष्ट्रं द्विडुपेक्षणामः ।। ९२ ९२. हे राजंस्त्वमेव नान्यस्तस्य ग्राहारेरीशिषे प्रभवसि तं वशीकर्तुं शक्नोपीत्यर्थः । इति हेतोस्त्वामीशानस्तव स्वामी भवन्सनीट् शंभुस्त्वामदिक्षङ्ग्राहारिवधायादिशत् । यदि त्वं तद्बधाय शक्तो नाभविष्य - स्तदा शंभुस्त्वां तद्वधे नोपादिक्ष्यत् । तस्मात्तद्वधे त्वं शक्त इत्यर्थः । तत्तस्मादस्य ग्राहारेर्वधे बलं सैन्यमुपस्कुरुष्व सन्नाहादिसामग्र्या विशिण्ढि । तथास्य मायित्वेन केवलबलेन हन्तुमशक्यत्वाद्धियां चोपस्कुरुष्व मन्त्रविशेषेण बुद्धीर्विशिण्डि विशिष्टबुद्धिप्रयोगं चेह कुर्वित्यर्थः । असौ स्वपापरिपाकेनैव पक्ष्यते तदस्योपेक्षैव युक्तेति न वाच्यम् । हि यस्माहिडुपेक्षणामः शत्रुपेक्षणमेव मो रोगो राज्यस्य राष्ट्रं देशं च रुजेत्पीडयेत् । अन्यो रोगः किल रोगिणमेव विनाशयति शत्रूपेक्षारो गस्तु राज्यं राष्ट्रं च विनाशयतीति प्राहारिवधोपेक्षां मा कृथा इत्यर्थः ॥
४
अथ राज्ञस्तद्वधे विशेषेणोत्साहनाय यत्स्वयं सर्वविधेयोपदेनपि युष्मान्प्रति मयैवमुपदिष्टं तत्सर्वं निरर्थकमिति दर्शयन्नाह । संतापयन्तं ज्वरयन्तमुर्वी तमामयं छेत्तुमलं निदेशैः ।
भुवः किलोज्जासयदद्रिचक्रं केनेन्द्र उज्जासयितुं नियुक्तः ॥ ९३ ॥
१ सी डी कोपं. २ बी मां क्षा ३ ए एफ °दिशत् । ४ बी विशदि ।. ५ बी विंशदि. ६ एफू वासौ रो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org