SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १९६ व्याश्रयमहाकाव्ये [ मूलराजः ] हरः पुरं पुराख्यं दैत्यमचिक्रर्थद्धिसितवान् । एवमुर्व्याः पृथ्व्या निम्नन्तममुं ग्राहारिं त्वं प्रणिजहि हिन्दि || श्रुत्वेति वाचं द्विषतां महन्तुं राज्ञा खरादीनिव निमहत्रा | मंत्री दृशा प्रेरित इत्यवोचत्स जैम्बको जाम्बवदग्यबुद्धिः ॥ ९६ ॥ ९६. जेम्बको नाम मत्रीति वक्ष्यमाणमवोचत् । यत इति पूर्वोक्तां वाचं जेहुलवाणीं श्रुत्वा द्विषतां ग्राहरिष्वादीनां शत्रूणां प्रहन्तुं राज्ञा मूलराजेन दृशा प्रेरितो व्यापारितः । शत्रवः कथं हन्तव्या इति दृक्संज्ञया पृष्ट इत्यर्थः । कस्मात्पृष्ट इत्याह । यतो जाम्बवान् सुग्रीवमन्त्री तस्येवाग्र्या बुद्धिर्यस्य सः खरादीन्निप्रहत्रेव यथा खरदूषणादीन्निप्रहा राज्ञा रामेण द्विषतां रावणादीनां प्रहन्तुं दृक्संज्ञया पृष्टो जाम्बवानवोचत् ॥ ""आ" यशसां नाथ तं नाथसे । इत्यत्र " नाथ : " [१०] इति वा कर्म 1 शिषि नाथ: " [३.३.३५ ] इत्यात्मनेपदम् || आत्मन इत्येव । ननाथ त्वाम् || स्मृतेः स्मरसि धर्म स्मरसि । रुषां दयस्व क्षमां मा दयस्व । तस्येशिषे स्वामीशानः । इत्यत्र "स्मृत्यर्थ" [११] इत्यादिना वा कर्म ॥ धियामुपस्कुरुष्व बलमुपस्कुरुष्व । इत्यत्र “कृग: " [१२] इत्यादिना वा कर्म ॥ राज्यस्य रुजेत् राष्ट्रं रुजेत् । इत्यत्र " हजार्थस्य " [१३] इत्यादिना वा कर्म ॥ ज्वरिसंतापिवर्जनं किम् । उर्वी ज्वरयन्तम् । संतापयन्तम् ॥ आमयं भुव उज्जासयत् । अद्विचक्रमुज्जासयितुम् | क्षमाया नाटयति अरिम१ एफ जम्बुको जाम्बुव.. १ एफ् हिंसि २ एफ् जम्बुको ३ एफ् जाम्बुवा. ४ एफ् रुषं द. ५ एफ संतपि ६ एफ रन्त ७ ए क्षमया. " " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy