SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ [हे० २.२.१.] द्वितीयः सर्गः । १८७ सस्य पितोग्रसेनो देवकीपिता देवकश्च भ्रातराविति कंसभगिनीत्वं देवक्याः । एतान्दशास्यादीननीतीरन्यदारापहारादिकानन्यायानसको ग्राहारिः किमग्रहीत् । एषां पार्थादेता अनीती: किमसौ जग्राहेत्यर्थः । एतासां सर्वासामप्यनीतीनामत्र दर्शनादेवमाशङ्का ।। गजाश्वगाः सिन्धुपतिं ममन्थ महीभृतो भेदमुवाह चेत्थम् । इन्द्रं गुणान्दण्डितवान्नु कालं स घातयामास न तेन कालः ॥८॥ ८३. स ग्राहारिः सिन्धुपति सिन्धुदेशाधिपं गजाश्वगा हस्तितुरङ्गवृषभान्ममन्थें मथित्वाग्रहीद्दण्डितवानित्यर्थः । तथा महीभृतो नृपान्भेदं संहत्यभावमुवाह च प्रापितवानन्यान्नृपान्कूटप्रयोगेण भेदितवानित्यर्थः । इत्थमनेन प्रकारेणेन्द्रं शक्रं गुणान् सिन्धुपतिमन्थनादीन धर्मान् दण्डितवान्नु किं हठाजग्राह । इन्द्रो हि सिन्धुपतिमब्धिमैरावणं गजमुच्चैःश्रवसमश्वं कामधेनुं गां च ममन्थ । तथा महीभृतोद्रीन्भेदं पक्षच्छेदमुवाह । एते चेन्द्रगुणा अत्रापीक्ष्यन्त इत्येवमाशङ्का । तथा स कालं यमं घातयामास । कर्माविवक्षायां जघान कालः । तं जन्निवांसं स प्रयुयुजे युद्धादिविधानेन स सर्व घातितवानित्यर्थः । न तु कालः कर्ता तेन ग्राहरिपुणा प्रयोज्यका घातयामास । हनने कालस्यापि स प्रयोक्ता न तु तस्य काल इत्यर्थः । इदमुक्तं स्याद्यत्राचं रुष्टस्तमसमयेपि यमो हन्ति यत्र त्वयं प्रसन्नस्तं समयेपि यमो दूरान्नमस्करोति ॥ क्रियाणां हेतुः कारकवदित्यनेन "क्रियाहेतुः कारकम्" [१] इति सूत्रं सूचितम् ॥ १ सी डी वक. २ सी डी °न्धुदे. ३ एफ ङ्गम. ४ एफ °न्य अग्र. ५ बी मथना. ६ एफ °तिमै'. ७ बी सर्वं. ८ एफ त्र चायं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy