________________
१८८
ध्याश्रयमहाकाव्ये [ मूलराजः ] स्वतन्त्रः कर्तेत्यनेन "स्वतन्त्रः कर्ता" [२] इति सूत्रं सूचितम् ॥ प्रयोजकोपि कतैवेति भापयते सः ॥
कर्मेत्यंशेन “कर्तुाप्यं कर्म" [३] इति सूत्रं व्याजि । तत्कर्म त्रेधा। निवर्त्य विकार्य प्राप्यं च । निर्वत्यै यथा । कुकर्म कर्ता ॥ विकार्य यथा। विश्वंतताप॥ प्राप्यं यथा । आट दिशः ॥ त्रिविधमप्येतत्पुनस्त्रिविधमिष्टमनिष्टंमनुभयं च । तत्रेष्टम् । कुकर्मादि ॥ अनिष्टम् । अब्धीन् ललछ । दुर्गाण्यास । भयं न लेभे ॥ अनुभयम् । केल्याप्यटन भापयते स भूपान् ॥ पुनस्तत्कर्म द्विविधं प्रधानेतरभेदात् । तच्च द्विकर्मकेषु धातुषु दुहि-भिक्षि-रुधि-प्रच्छि-चिग्-बूग्-शास्वर्थेषु याचि-जयति-प्रभृतिषु च भवति । दुयर्थ । वसूनि गां दोग्धि । भिक्ष्यर्थ । मुनीन् याचतेर्थम् । एवं मुनीन् रुणद्धि वृत्तिम् । मुनीन्न सत्पथं पृच्छति । रत्नानि रत्नाकरमुच्चिनोति। मुनीन्न सामाह । गामधर्ममनुशास्ति ॥ याचेरनुनयार्थस्योदाहरणं स्वयं ज्ञेयम् ॥ जयतिप्रभृति । निधीन कुबेरं विजिगीषते । जहेन्यदारान्स्वपुरीम्।गांयतिनं मुमोष।भ्रूणानकर्षभगिनीम्।अग्रहीदेताननीतीः। गजाश्वगाः सिन्धुपति ममन्थ । महीभृतो भेदमुवाह । इन्द्रं गुणान्दण्डितवान् ॥ तत्र दुहादीनामप्रधाने कर्मणि कर्मजः प्रत्ययः । असौ प्राणान्विपक्षैर्भिक्ष्यते । नीप्रभृतीनां तु प्रधाने कर्मणि । असौ स्वभर्तृभावं नीयते ॥
कालं स घातयामास न तेन कालः । इत्यत्र “वाकर्मणाम्" [१] इत्यादिमाणिगवस्थायां यः कर्ता स णौ सति वा कर्म ॥
सोजीगमत्वेदमिलां बलौघैरबोधयद्भाररुजं फणीन्द्रम् । अदर्शयत्कालपुरीमरातीनभोजयत्तत्पिशितं पिशाचान् ॥८॥
१ सी डी सूचि. २ एफ °नं व्यञ्जितम् । त°. ३ बी एफ ४ बी एफ भे। उभ'. ५ ए सी ह्यर्थः । व. ६ सी लाक. नीती । ग. ८ एफ मजप्र.
टमुभ. ७ ए सी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org