________________
१८६
याश्रयमहाकाव्ये
[ मूलराज: ]
तथा गामेवाधर्म पापमनुशास्ति शिक्षयति पापे व्यापारयतीत्यर्थः ।
9
तथा मुनीन् साम मधुरवाक्यं नाह निर्भर्त्सयतीत्यर्थः । तथा मुनीनेव वृत्तिं भिक्षाचर्योच्छादिकां जीविकां रुणद्धि निवारयति । तथा मुनीन् सत्पथं न्यायमार्ग न पृच्छति न कथापयतीत्यर्थः । तथा मुनीन द्रव्यं याचते ॥
रत्नानि रत्नाकरमुच्चिनोति निधीन् कुबेरं विजिगीषतेसौ । प्राणान्विपक्षैर्युधि भिक्ष्यते च स्वभर्तृभावं बत नीयते च ॥ ८१ ॥
८१. असौ ग्राहारी रत्नाकरं सागरं रत्नान्युचिनोति वियोजयतीत्यर्थः । एतेन कोशसंपदुक्तिः । तथा कुबेरं धनदं निधीन् निधानानि विजिगीषते । एतेन संपूर्णेपि कोशे तद्वृद्धौ निरुद्यभित्वनिरास उक्तः । तथासौ युधि विपक्षैः प्राणान् भिक्ष्यते चास्मान् जीवतो मुश्चेति जीवितव्यं याच्यते च । एतेन पराक्रमित्वोक्तिः । तथा बतेति खेदे । विपक्षैरेवासी स्वभर्तृभावमात्मस्वामितां नीयते चात्मन: स्वामी क्रियत इत्यर्थः । एतेन प्रभुंसंपदुक्तिः । एतेन सर्वेणास्य दुःसाध्यत्वोक्तिः ।। जह्नेन्यदारान् स्वपुरीं दशास्यो गां कार्तवीर्यो यतिनं मुमोष । भ्रूणानकर्षद्भगिनीं च कंसोग्रहीत्किमेतानसकावनीतीः ॥ ८२ ॥
८२. दशास्यो रावणोन्यदारान् रामभार्या सीतां स्वपुरीं लङ्कां जननाय । तथा कार्तवीर्यः सहस्रार्जुनो यतिनं जमदग्निं गां कामधेनुं मोषाहार । तथा कंसः कंसाख्यो दैत्यो भगिनीं देवकी भ्रूणान् गर्भानकर्षदेव की पार्श्वाद्वधार्थं भ्रूणान् गृहीतवानित्यर्थः । कं
१ सी डी 'नीने २ एफ् न् विभक्ष्य ३ ए सी डी ते । ए ४ सी डी 'मनं स्वा. ५ एफ् भुवसं. ६ एफ वेंण प्रकारेणा . ७ ए सी डी तल ८ सी ख्यो भ.
०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org