SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १८० व्याश्रयमहाकाव्ये [ मूलराजः ] विद्वत्सङ्गमेपि पापिष्ठजनसङ्गनिरतस्येत्यर्थः । अतश्च पुंविदुषोपि नृषु मध्ये जातोपि पापनिषेदुषः पापेन्यायकर्माणि तस्थुषः । विद्वज्जनसङ्गत्या धर्माधर्मादिविवेकं जानतोपि पापिष्ठजनसङ्गातिप्रसङ्गेन पापकर्मनिरतस्येत्यर्थः । तथा रौद्राणि भीष्माणि रुद्रदैवतानि वा यान्यस्त्राणि शस्त्राणि तद्विषयं येद्वैदुष्यं नैपुण्यं तज्जुषते सेवते यस्तस्य । रौद्रात्रबलिष्ठ - त्वात्पापकर्मणः केनापि निवर्तयितुमशक्यस्य चेत्यर्थः ॥ वैदुष्य । विदुषः । विदुषी । निषेदुषः । विषेदुषी । विदुष्मतः । उपेयुष्मतः । इत्यत्र “वसुमतौ च" [१०५ ] इत्युष ॥ नृशंसतारण्यशुनोस्य यूनो जिघृक्षतो माघवनीं नु लक्ष्मीम् । मतिः शुनीपुच्छनिभातियूनी शल्यं मघोनीं भजतो मघोनः ॥ ७३ ॥ 1 ७३. यूनस्तरुणस्यास्य ग्राहरिपोर्नृशंसतया क्रूरत्वेनारण्यशुनो वृकतुल्यस्य सतो मतिरस्ति । किंभूता । अतियूनी युवानमतिक्रान्ता । युवा हि प्रायो यौवनेन मदोद्धतः स्यात्तस्मादपि मदोद्धतेत्यर्थः । शुनीपुच्छनिभा कुर्कुरीपुच्छवत्कुटिला च । उत्प्रेक्ष्यते । नास्य मतिर्मदेनोत्ताना वक्रा च किं तु माघवनीं शक्रसत्कां लक्ष्मीं जिघृक्षतो नुं ग्रहीतुमिच्छोरिव । यो ह्युच्चतर्वादिस्थं फलं जिघृक्षति तस्योश्च फलोत्तारणायोत्ताना वक्रेाचाङ्कुटयष्टिः स्यात् । अत एव मघोनीं शचीं भजतोपि । अपिरत्र ज्ञेयः । मघोन इन्द्रस्य शल्यं रतिसुखसागरावगाहकालेपीन्द्रस्य तन्मतिर्हृदयस्था शल्यमिव 'दु:खाकरोतीत्यर्थः ॥ १ एफ् सङ्गति २ सी 'णित'. ३ सी डी यद्विदु. ४ एफ नैः पु°. ५ एफू निर्वृत्तयि ६ एफ् शंसंसतारण्यशुनो नृसंशत ७ए त्प्रेक्षते. ८ एफ् नु गृही. ९ एफू 'क्रा च कुट. १० बी एफ दुःखं क Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy