SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ [है० २.१.१०८.] द्वितीयः सर्गः । स यौवनाच्छौवनमत्तता भृल्लोलो युवत्यां मघवत्यभीरुः । कीलालपेष्वा विनिहत्य राज्ञो राज्ञीरुदस्रा निदधेवरोधे ॥ ७४ ॥ ७४. स ग्राहारिः कीलालपेष्वा रक्तं पिबता शरेण राज्ञो विनिहत्य तेषां राज्ञीरुद॒स्राः कष्टादुदंती : सतीरवरोधेन्तःपुरे निदधे । यतः कीदृक् । यौवनाद्यूनोविकाराद्धेतोः शौवनमत्तताभृत् । शुन इयं शौवनी या मत्ता मदस्तां बिभर्ति यः सः । श्वेव मदनोन्मादीत्यर्थः । अत एव युवत्याम् । जातावेकवचनम् । युवतिषु लोलो लम्पटः । तथा मघवत्यपि । अपिरत्र ज्ञेयः । इन्द्रस्थशक्त्यादिभ्योपीत्यर्थः । अभीरुर्महाश I क्तित्वात् ॥ १८१ शुनी । शुनः । अतियूनी । यूनः । मघोनीम् । मघोनः । इत्यत्र “श्वन् " [१०६ ] इत्यादिना वस्य उः ॥ ङीस्याद्यधुस्स्वर इति किम् । शौवने । यौवनात् माघवनीम् ॥ नकारान्तनिर्देशादिह न स्यात् । युवत्याम् । मघवति । मघवदिति प्रकृत्यन्तरं शक्रवाचकम् ॥ कीलालप । इत्यत्र “लुगातोनापः " [१०७ ] इत्यातो लुक् ॥ अनाप इति किम् । उदस्राः ॥ राज्ञीः। राज्ञः । इत्यत्र “अनोस्य” [१०८ ] इत्यनोतो लुक् ॥ साम्नीव साम्नी इह ताक्ष्णवान्नस्थामनी राजनि धार्तराज्ञे । दुष्कर्मणि स्वर्वणि वीक्ष्य भूना मूर्ध्ना न केघप्रतिदीन्नि नेमुः ॥ ७५ ॥ ७५. अघप्रतिदीनयप्यघस्य पापस्य प्रतिदीनीव दिवस तुल्ये पापै १ एफ् दु:कर्म.. १ सी डी दतीर २ सी डी न मा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy