SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ [है० २.१.१०४.] द्वितीयः सर्गः । १७९ कृत्वा तिरवो नु पुरः पदाचोपाच्यानुदीच्यान्स नृपानहंयुः । वाप्युदीच्यैति हृदाप्युदीचा दिवं जिगीषुर्नृपतिः प्रतीच्याः ७१ ७१. स प्रतीच्याः पश्चिमदिशः पतिर्ग्राहरिपुरपाच्यान्दक्षिणदेशसंबन्धिन उदीच्यानुत्तरदेशसंबन्धिनश्च नृपांस्तिरश्चो न्वजादिपशूनिव पुरोग्रतः पदाचः पादचारिणः कृत्वा भ्रुवाप्युदीच्योत्पाटितया हृदापि चेतसा चोदीचोत्पाटितेनैति गच्छति । यतोहंयुरनेकनृपपदातिभावनयनेन संजातस्वबलवीर्य संपत्त्युत्कर्षाद्गर्वाध्मातः । गर्वाध्मातत्वात्कमपि चक्षुषा नेक्षते चेतसा न स्मरति चेत्यर्थः । उत्प्रेक्ष्यते । नायं गर्वातिरेकादुत्पाटितभ्रूहृदयः किं तु दिवं स्वर्ग जिगीषुर्नु । यो हि यज्जिगीषति स तदभिमुखं मनश्चक्षुश्च निक्षिपति ॥ 1 उदीच्यान् । उदीचा । उदीच्या । इत्यत्र "उदच उदीच्” [१०३] इत्युदीच् ॥ अपाच्यान् । पदाचः । प्रतीच्याः । इत्यत्र “अच्च प्राग्दीर्घश्च" [ १०४] इति चादेशः प्राग्दीर्घश्व ॥ अन्वाचयशिष्टत्वाद्दीर्घत्वस्य तदभावेपि चादेशः स्यात् । तिरश्वः ॥ विदुष्मतः पुंविदुषोप्यधर्मोपेयुष्मतः पापनिषेदुषोस्य । रौद्रात्रवैदुष्यजुषोतिभाराद्विषेदुषी क्ष्मा विदुषी चरित्रम् ॥ ७२ ॥ ७२. अस्य ग्राहरिपोरतिभाराद्विषेदुषी विषण्णा दुःखिता सती क्ष्मास्य चरित्रं पापस्वरूपं वृत्तं विदुषी ज्ञात्री । एतन्महापापभराक्रान्ता पृथ्व्येवैतद्दुर्वृत्तं जानाति नान्य: कोपीत्यर्थः । यतो विद्वांसो भूम्ना सन्त्यस्य तस्य विदुष्मतोपि । अपिरत्रापि योज्यः । अधर्मोपेयिवांसोधर्ममुपगताः पापिष्ठाः प्रशस्याः सन्त्यस्य तस्याधर्मोपेयुष्मतः प्रभूत १ बी 'दीच्योत्पा. २ एफ् ध्मातत्वा ३ एफू चवशि ४ डी ज्ञातवती । ए° ५ बी एफ 'मुपाग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy