SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १७८ व्याश्रयमहाकाव्ये [मूलराजः] द्यमानः पाचरणो यस्य सोपात्पङ्गुः । स इव कथं नाचरेत् । क । सत्यस्मिन् ग्राहारौ। किंभूते । अनुपपादुकेनुपपदनशीलेनुपपन्ने । कार्याकार्यविचाररहित इत्यर्थः । अत एव द्विपात्सु नृषु विषये दुष्टे वञ्चकाभिप्रायेत एव च लोकः कर्मतापन्न एकं पादं भागमाख्यायते स्म णिचि ते चैकपादितस्तस्मादपि लोकाच्चतुष्पाद्यति। पादसमानार्थः पाच्छब्दोत्र । ततश्च चतुष्पाञ्चतुर्णा पदां भागानां समाहारमिच्छति विश्वासनाय चतुर्थ भाग ग्रहीष्यामीत्युक्तादपि लोकाच्चतुरोपि भागान् ग्रहीतुकाम इत्यर्थः । अत एव चातिगूढपान्दि गूढपादं सर्पमपि रौद्रत्वेन कौटिल्येन चातिक्रान्तानि वृत्तानि लोकदण्डनादीनाचारान् बिभ्रति । कलिमाहात्म्यात्तावदधुना धर्म एकपादेनैवावतिष्ठते । महापापिष्ठेन ग्राहरिपुणी तु धर्मेकपादस्याप्युच्छेदितत्वाद्धर्मः पङ्गुरेवाभूदित्यर्थः । चः पूर्ववाक्यार्थापेक्षया समुच्चये ॥ मासा मासेन । निशि निशासु । आसनि आसनाय । इत्यत्र "मास" [१००] इत्यादिना लुगन्तादेशो वा ॥ ददिः दन्ते । पदा पादेन । नसि नासिकया । हृदा हृदयस्य । द्विडस्ना प्रियासृजः । यूष्णा यूपेण । उद्गाम् उदकैः । दोष्णः दोषि । यक्का यकृति । शना । उच्छकृति । इत्यत्र "दन्तपाद" [१०१] इत्यादिना ददित्याद्यादेशा वा ॥ वैयाघ्रपद्यम् । द्विपदाम् । द्विपँदीः । द्विपदीय । पदाम् । इत्यत्र “यस्वरे" [१०२] इत्यादिना पद् ॥ यस्वर इति किम् । द्विपात्सु ॥ अणिक्यधुटीति किम् । एकपादितात् ॥ क्येति क्यन्क्यडोरविशेषेण ग्रहः । चतुष्पाद्यति । अपायेत । धुटि । गूढपान्दि । नाम्न इत्येव । अनुपपादुके ॥ १ सी डी पन्नमेकं. २ सी डी °णा नु ध. ३ एफ् देशः ।. ४ डी पदीय ।. ५ बी एफ त् । अतिगूढपान्दि । क्ये. ६ बी एफ त । ना. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy