SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ [ है० २.१.९६.] द्वितीयः सर्गः। स्यास्ति चक्रीवान् गर्दभ आभीर एवान्यायित्वेन निन्द्यत्वाञ्चक्रीवांस्तस्मिन्विषये शंभुर्यदनुशासनं न्यदिक्षत्तयुक्तम् । धार्मिकस्य सैन्यादिसर्वशक्तियुक्तस्य तवान्यायिनि ग्राहरिपौ विषये यः शांभवोनुशासनादेशः स कर्तव्यो मे प्रतिभातीत्यर्थः ।। अथ राज्ञो मन्यूद्दीपनाय जगत्रयसंतापकानि ग्राहरिपोरनेकान्यन्यायपदानि बलानि च वृत्तचतुर्विंशत्या वदन्नीशादेशस्यैव युक्तता द्रढयति । औदन्वतद्रोहकरेण चर्मवत्यस्थिमत्यर्दिततीर्थपान्थैः । कक्ष्यावतामप्यगमाभ्युदन्वत्प्रभासभूश्चक्रवतामुनाभूत् ॥ ६३॥ ६३. उदन्वन्तं समुद्रमभि "लक्षणेनाभि " [३.१.३३] इत्यादिनाव्ययीभावे अभ्युदन्वदुदन्वन्तं लक्ष्यीकृत्याभिमुखा प्रभासभूः प्रभासतीर्थभूमिः । प्रभासतीर्थ हि समुद्रसमीपेस्ति । यद्वाभ्यभित उदन्वती समुद्रोदकं बिभ्राणा या प्रभासभूः सा कक्ष्यावतामपि । कर्तरि षष्ठी। उद्यमवद्भिरेप्यगमागम्याभूत् । केन हेतुना । अमुना ग्राहारिणा । कीदृशेन । उदकमस्यास्त्युदन्वानृषिस्तस्यापत्यमौदन्वत ऋषिस्तस्य । यद्वोदन्वान्नामाश्रमस्तत्र भवा ऋषयस्तेषाम् । द्रोहकरेण जिघांसुना । तथा चक्रवता सुराष्ट्रादेशस्वामिना । कीदृक्सती भूः । अर्दितामुनैव विनाशिता ये तीर्थपान्था यात्रिकास्तैः कृत्वा चर्मवती चर्मान्विता । तथास्थिमती कीकसान्विता च । अनेनानेकान् यात्रिकान् हतान् दृष्ट्वा यात्राश्रद्धालवोपि भयेन प्रभासे न गच्छन्तीत्यर्थः ॥ चर्मण्वती । अष्टीवत् । चक्रीवति । कक्षीवत्। रुमण्वत् । इत्येते "चर्मण्वती" [९६] इत्यादिना निपात्याः ॥ नाम्नीत्येवं । चर्मवती । अस्थिमती । चक्रवता । कक्ष्यावताम् ॥ १ एफ आहीर. २ एफ ग्राहिरि'. ३ एफ तां दृढ'. ४ एफ कक्षाव. ५ बी रप्याग'. ६ ए बी राष्ट्रदे'. ७ एफू पाताः ॥. ८ ए सी डी व । अ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy