SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १७२ घ्याश्रयमहाकाव्ये [ मूलराजः] अज्ञाताहीवत्यहीवतिका । कपि "ड्यादीदूतः के" [२.४.१०४] इति हूस्वः । तस्याश्च मुनीवत्याश्च ऋषीवत्याश्च नदीनां यद्वार्जलं तद्वच्छुचिः पौनरुक्क्यासत्यत्वादिमलरहितत्वेन निर्मला वाग् वाणी यस्य सः । मकारान्तात् । तूष्णीवति ॥ मकारोपान्तात् । लक्ष्मीवान् ॥ अवर्णान्तात् । नयवत्सु ॥ अवर्णोपान्तात् । यशस्वान् ॥ अपञ्चमवर्गात् । मुद्वान् । इत्यत्र "मावर्ण" [९४] इत्यादिना मतोर्मस्य वः॥ मावर्णान्तोपान्तापञ्चमवर्गादिति किम् । धीमान् ॥ अहीवतिका । मुनीवती । ऋषीवती । इत्यत्र "नाम्नि" [९५] इति मस्य वः॥ चर्मण्वतीकर्तृसदृग्रुमण्वदुत्तुङ्ग कक्षीवदनल्पधर्मन् । युक्तं नताष्ठीवदिलेश शंभुराभीरचक्रीवति यन्यदिक्षत् ॥६२॥ ६२. हे चर्मण्वतीकर्तृसदृक् । चर्मण्वती नदी तस्याः कर्ता रन्तिदेवः । तेन हि गोमेधयागः कारितः । तत्र चानेकगोवधेन गोरक्तैर्नदीप्रवर्तिता । तस्याश्चानेकगोचर्मयुक्तत्वेन चर्मण्वतीति नाम प्रसिद्धम् । तस्य सदृक् महायागकारित्वात्तत्तुल्य । तथा हे रुमण्वदुत्तुङ्ग । लवणमस्यास्ति रुमण्वान्नाम पर्वतस्तद्वदुत्तुङ्गोन्नताशय । तथो हे कक्षीवदनल्पधर्मन् । कक्ष्याशब्दो योपान्त्यः सादृश्योद्योगयोर्वर्तते । कक्ष्या धर्मोद्योगोस्यास्ति कक्षीवान्नामर्षिस्तद्वत्प्रभूतधर्म । तथास्थीनि सन्त्येषामष्ठीवन्तो जबोरुसंधयो नता अष्ठीवन्तो येषां ते तथेलेशा यस्य तत्संबोधनं हे प्रणम्रानेकभूप । आभीर आभीरजातिहिरिपुश्चक्रं मण्डलं मेहनान्ते १ बी मन्वती'. २ ए सी मन्वदु. १ एफ वर्णान्तोपान्त इ. २ एफ था क°. ३ डी था हे नताष्ठीवदिलेशास्थी. ४ डीणताने. ५ सी डी रजा. ६ ए एफ तिग्राह. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy