SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ [है० २.१.९३.] द्वितीयः सर्गः। १७१ लग्न । अलक् । तष्टा । तड् । इत्येत्र “संयोगस्य" [८] इत्यादिना स्कोलुक् ॥ संयोगस्येति किम् । कृतः॥ पुमान् । इत्यत्र “पदस्य" [८९] इति संयोगस्य लुगन्तादेशः ॥ पदस्थति किम् । स्याम् ॥ प्रजिहीः । इत्यत्र “रात्सः" [९०] इति सस्यैव लुग् ॥ पूर्वेणैव सिद्ध नियमार्थ वचनम् । तेन रात्परस्य सस्यैव लोपो नान्यस्य । ऊ । अभ्यजर्घाः । अभ्यपास्पाः ॥ रिपुहा । इत्यत्र "नौम्नो नः" [९१] इत्यादिना नस्य लुक् ॥ अनह्न इति किम् । अनहर्विलम्बम् । अत्र पर विधौ रेफस्यासत्त्वान्नलोपः स्यात् ॥ महात्मन् । इत्यत्र "नामध्ये' [९२] इति नलोपाभावः ॥ मतिधाम । अधामन् । इत्यत्र “क्लीबे वा” [९३] इति वा नस्य लुक् ॥ नृपेथ तूष्णीवति जेहुलो लक्ष्मीवान् यशस्वान्नयवत्सु धीमान् । मुद्वानदोहीवतिकामुनीवत्यूषीवतीवा शुचिवाग्वभाषे ॥११॥ ६१. अथैवमुक्त्वा नृपे मूलराजे तूष्णीवति मौनस्थिते जेहुलोदो वक्ष्यमाणं बभाषे । उपादेयवाक्योहि मैत्रे भाषेतेत्युपादेयवाक्यताहेतुगर्भविशेषणान्याह । लक्ष्मी राज्यकोशादिश्रीरस्यास्ति लक्ष्मीवान् । लक्ष्मीवान् हि प्रायेण सर्वमान्यतयोपादेयवाक्यः स्यात् । लक्ष्मीवानप्यन्याय्यन्यायोपदेशितयाग्राह्यवागेवेत्याह । नयवत्सु मध्ये यशस्वान् श्लाघ्यः । अतिन्यायित्वान्याय्यपि निर्बुद्धिरग्राह्यवागेवेत्याह । धीमान् । बुद्धिमानपि शोकातुरो विघटमानवाक्यतयाग्राह्यवागेवेत्याह । मुद्वान् हर्षान्वितः । मुद्वानप्यश्लीलवाक्योसुखकत्वादग्राह्यवागेवेत्याह । १ बी लग्नः ।. २ ए त्यसं. ३ सी डी °म् स्या. ४ ए सी डी नामिन ई. बी नाम्न् इ. ५ डी मत्रं भा'. ६ ए सी एफ् न् हि. ७ ए °क्ष्मीमान. ८ एफ करत्वा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy