SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १७० व्याश्रयमहाकाव्ये [ मूलराजः] सको जज्ञे । अस्म्यहं नु प्रष्टा युवां पृच्छामि । किमित्याह । नु इति वितर्के । युवां वितर्केथां कथमस्य ग्राहरिपोस्तष्टा विनाशकोहं स्यां भवे. यम् । अथ भणिष्यथो यद्यन्याय्येष तच्छिक्ष्यतां किमनेन प्रश्नेनेत्याह । खरोपित आत्मसंस्थापिते जन ऊर्जयतीत्यूर्व सात्त्विकः पुमान्पुरुषगुणोपेतः कः प्रजिहीः प्रहर्तुमिच्छेत् । न कोपीत्यर्थः । एवं चास्य वध्यत्वावध्यत्वरूपयोर्विरुद्धकार्ययोरुपस्थितयोः किं कार्यमित्यहं युवां प्रष्टा॥ तस्माद्यवां यद्विधेयं तद्वदतमित्याह । त्वमभ्यपास्पा गुरुणाभ्यजर्घास्त्वं चोशनस्त्वं रिपुहा महात्मन् । भियामधामन्मतिधाम कृत्यं युवां ब्रुवाथामनहर्विलम्बम् ॥६०॥ ६०. हे महात्मन् विपुलाशय भियां भयानामधामन्नस्थान मतिधाम बुद्धिगृह जम्बक रिपुहा त्वं गुरुणा बृहस्पतिना सहाभ्यपास्पा भृशमस्पर्धथाः । बुध्या त्वं बृहस्पतितुल्य इत्यर्थः। तथा हे महात्मन् मियामधामन्मतिधाम जेहुल रिपुहा त्वमुशनस्त्वं शुक्रत्वमभ्यजर्घा भृशमगृध्यो भृशमकाङ्क्षः । बुद्ध्यर्यो त्वं शुक्रसम इत्यर्थः । तस्माधुवां नास्त्यह्नो विलम्बो यत्र तत् शीघ्रं कृत्यं विधेयं ब्रुवाथाम् । यज् । यष्टा । विप्रेट् ॥ सृज् । स्रष्टा । राष्टिसृड्भ्याम् ॥ मृज् । माट । कंसमृड्भ्याम् ॥ राज् । राष्टि । सम्राट् ॥ भ्राज् । उद्भाष्टि । विभ्राड् ॥ भ्रस्ज् । परिभृष्ट । वर्गभृड्भ्याम् ॥ व्रस्च् । ब्रष्ट प्रभासवृड् ॥ परिव्राज् । परिव्राट् ॥ शकारान्त । निविष्टः । विट् । छादेशोपि शो गृह्यते । प्रष्टा । इत्यत्र “यजसृज" [८७] इत्यादिना षः ॥ १ एफ जम्बुक. २ एफ °तिसम इ. ३ सी डी मका. ४ एफया श्रु. ५ एफ ब्रुवीथा. ६ डी ब्रश्च ।. ७ ए बी यज्स. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy