________________
१७४
व्याश्रयमहाकाव्ये
[ मूलराजः ]
अन्धौ । अभ्युदन्वत् ॥ नाम्नि । अभ्युदन्वत् । औदन्वत । इत्येते "उदन्वा
नब्धौ च " [ ९७] इति निपात्याः ॥ राजन्वती या हरिणा सुराष्ट्रा तां दल्मिमानूर्मिमदब्धिभीमः । शौर्योष्मकण्डा कृमिमानिवाद्य स भूमिमात्राजवतीं व्यधत्त ||६४ ||
६४. या सुराष्ट्रा देशो हरिणा विष्णुना कृत्वा शोभनो राजास्त्यस्यां राजन्वत्यासीत् । तां सुराष्ट्रामद्य सांप्रतं स भूमिमान्भूपतिर्ग्राहरिपुनिन्द्यो राजास्त्यस्यां निन्दायां मतौ राजवतीं व्यधत्त । कीदृक्सन् । शौर्योष्मकण्डा शौर्यस्य य ऊष्मा तीव्रता तेन या कण्डूः खर्जूर्युद्धविधानेच्छातिरेकस्तया कृमयः सन्त्यस्य कृमिमानिव । कृमिमान् हि कण्डूयुक्तः स्यात् । अत एव दल्मिमान् शस्त्रविशेषान्वितः । अत एव चोर्मिमदब्धिभीमः । यथा कल्लोलान्वितः समुद्रो रौद्रः स्यादेवं दल्मिधारणाद्रौद्रः । सुराष्ट्रायामतिरौद्रोयं कुराजाभूदित्यर्थः ॥
गोन्मुनीनां यवमत्राणां माहिष्मतीशो नु ककुद्मदंसः । पुरे गरुत्मद्धमवजा वसत्यसौ भानुमती कल्पः ॥ ६५ ॥
६५. असौ ग्राहारिः पुरे वामनस्थल्यां वसति कीदृक्सन् । महिष्मान्देशस्तत्र भवा माहिष्मती पुरी तस्या ईशः सहस्रार्जुनो नु यथा सहस्रार्जुनो मुनीनां गोहत् । तेन हि जमदग्निमुनेः कामधेनुर्हठादपहृतेति पुराणम् । तथा यवमन्तो होमार्थं गृहीतयवाः करा येषां तेषां यागविधानव्यप्राणामित्यर्थः । मुनीनां गा हैयंगवीनहवनार्थं संगृहीता धेनूर्हरति चोरयति गोहृदपि । अपिरत्र ज्ञेयः । ककुद्मतो वृषभस्येवांसौ स्कन्धौ यस्य स ककुद्मदंसोतिबलिष्ठः । किंभूते पुरे । गरुत्मान् गरुडो हनु
3
१ एफ् ट ह २ बी 'यामिति ३ सी डी 'पिर.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org