________________
[है० २.१.८०.]
१
२
प्रातराशिषं ददति । तथा तैर्ययं संस्कारिषी मन्त्रपाठपूर्व तिलककरणेन विशिष्टीकृषीम् । तथा तैर्यूयं परिकारिषीध्वं परिवार्यध्वम् । तथ तदीयैर्मुनिसत्कैर्गुणैरुपशमादिभिः कर्तृभिर्द्राग्यूयं ग्राहिषीध्वं चाश्रीयध्वम् परिवारस्य गुणाः स्वामिन्यध्यारोहन्ति ॥
सिंहासनायोत्सहिषीमाभां हरैर्ग्रहीषीध्वमथाधिसानोः । सदोयिपी लिडंशुरनं प्रौढ्या श्रियं जम्भभिदोयिषीध्वम् ॥५३॥
५३. हे राजन् यूयं धुलिहो व्योमस्पृशोंशवः किरणा येषां तानि तथाविधानि रत्नानि यत्र तत् सद् आस्थानमण्डपमयिषीद्वं गम्यास्त | तथा सिंहासनायोत्सहिषीमुद्यम्यास्त सिंहासन उपविशतेत्यर्थः । अथ सिंहासनोपवेशानन्तरमधिसानोगिरिप्रस्थमध्यारूढस्य हरेः सिंहस्याभां शोभां ग्रहीषीध्वमाश्रयिषीध्वम् । एवं च प्रौढ्यानभिभवनीयाकारेण जम्भभिद इन्द्रस्य श्रियमयि षीध्वमाश्रयत || दुग्धोज्ज्वलामुग्धदृशाम्बुरुण्मान्धग्मुद्विषां दानवलिप्रियोथ । अमूढधीः कृत्यविधावनुन्मुडूत्रभुंगतिधुडसावुदस्थात् ॥ ५४ ॥
द्वितीयः सर्गः ।
५४. अथैवं बन्दिभणनानन्तरमसौ मूलराज उदस्थात्तत्पादुत्थितः । कीदृक् । दुग्धवदुज्ज्वलामुग्धामूढा विगतनिद्रा या दृग्दृष्टिस्तया कृत्वा । जातावेकवचनाद्दुग्धोज्वलामुग्धदृग्भ्यामित्यर्थः । अम्बुरुही अस्य स्तः सोम्बुरुण्मानिवाम्बुरुण्मान् । प्रभाते हि निद्राभ्राणतयाक्षीणि दुग्धोज्वलानि विनिद्राणि च स्युः । कमलानि चेत्युभयोरपि साम्यात्प्रबुद्ध
Ε
७
१ सी मात्वग्मु २ बी सी गार्ति
•
Jain Education International
१६५
१ एफ् रि. २ एषी प ३ डी था त्वदी ४ए द्यम्यस्त. ५ एफ् घीमा ६ एफ णि उज्ज्व ७ सी डी 'निवेत्यु.
For Private & Personal Use Only
www.jainelibrary.org