________________
१६६
व्याश्रयमहाकाव्ये
[ मूलराज: ]
कमलतुल्याक्ष इत्यर्थः । तथा मुद्विषां मुह्यन्ति मुहो मूढा अन्यायकारण इत्यर्थः । येद्विषो दैत्यादयस्तेषां दहतीति धक् विनाशयितात एव वृत्राय द्रुह्यति वृत्रधुगिन्द्रस्तस्यार्तिर्देत्योपद्रवजनिता पीडा तस्यै दुह्यति जिघांसति यः सः । तथात एव दानवलिहं दैत्यघातिनं विष्णुमिच्छन्ति दानवलिहो देवास्तेषां प्रियः । तथामूढधीः पटुबुद्धिरत एव कृत्यविधौ नोन्मुह्यत्यनुन्मुट् । शंभुनो स्वप्नेतिगुरुकार्यमुपदिष्टं तत्कथं करिष्य इति न किंकर्तव्यतामूढो भवन्सन्नित्यर्थः ॥ दुग्धास्त्रिगद्रूढमनः स्त्रिडेष स्तुग्धामृतस्तूढवचाः श्रुतिस्तुक् । स्त्रीदैर्द्विजैः स्निग्धततुः सुमन्त्रस्नुद्धिर्वृतः सांध्यविधिं व्यधत्त ॥ ५५ ॥
I
५५. दुग्धा जिघांसिता अस्त्रिहो द्विषो येन स दुष्टान्निजिघृक्षुरित्यर्थः । तथाद्रूढं मनो येषां तेदृढमनसोवञ्चकास्तेषु स्निह्यति यः सः शिष्टपालक इत्यर्थः । एष मूलराज: सांध्यविधिं संध्यावन्दनादि व्यधत्त । कीदृक्सन् । द्विजैर्वृतैः । किंभूतैः स्त्रीढैः । स्नात्वा सांध्यविधिर्विधीयत इति स्नानजलार्द्रत्वात्स्निग्धतनुभिः । तथा सुमन्त्रस्तुति: प्रभात संध्योचितप्रधान वेदमन्त्रानुच्चारयद्भिः । तथा स्निग्धतनुः स्नानजलार्द्राङ्गः । तथा मधुरत्वात्स्नुग्धं क्षरितममृतं येन तत्स्नुग्धामृतमिव स्तूढमुद्गीर्ण वचो येन सः । तथा सन् श्रुतिं वेदं स्तुत्युद्भिरति श्रुतिस्नुक् । प्रभातसंध्याविध्युचितानि वेदवाक्यानि मधुरमुच्चारयंश्चेत्यर्थः ॥
ज्ञेः । अग्ग्राहिदुम् आन्वग्राहिध्वम् । अनुग्राहिपीढुं ग्राहिषीध्वम् । अम्बकारिढुम् अन्वसारिध्वम् । संस्कारिषीढुं परिकारिषीध्वम् ॥ इटः । जगृहि मेहिध्वे । अग्रहीढ्वम् अग्रहीध्वम् । उत्सहिषी ग्रहीषीध्वम् । पुपुविद्वे लुलुविध्वे ।
१ सी 'न्तिकं दा. २ सी डी नाच स्व. ३ एफ् 'तः । कीदृशैः स्त्री. ४ सी षीध्वम् । अ ५ एफ् षीध्वं पु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org