SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १६४ व्याश्रयमहाकाव्ये [मूलराजः] श्रिताः । हि यस्मादुत्कृष्टा गुणा बुद्ध्युत्साहादयो येषां तैर्गुणाधिकैर्गुरुभिः सदा यूयमान्वग्राहिध्वं सदुपदेशदानादिना समन्तादनुगृहीताः ॥ किमन्वकारिद्वमुतान्वसारिवं किं नु मेहिध्व इनेन भाभिः । तमोलविवं द्विपतोलविध्वं यूयं हि विश्वं पुपुविद एतत् ॥५१॥ ५१. हे राजन् हि यस्माद्यूयं नीतिशास्त्रादिसकलशास्त्रवेदितृत्वात्तमोज्ञानमलविवेम्। तथा द्विषतोरीनलविध्वम् । तथैतद्विश्वं भूलोकं पुपुविच अन्यायमलापनयनेन पवित्रितवन्तः।तस्माद्धेतोरिनेन रविणा क; भाभिस्तेजोभिः कृत्वा तमोलवनादिस्वकार्यनिष्पादनाय यूयं कर्म किमन्वकारिट्वम् । अन्तर्भूतणिगर्थत्वात्कृगः । किं यूयं रविणात्मानमनुकारिताः स्वसदृशीकृता इत्यर्थः । उत किं वेनेन भाभिः कृत्वा यूयमन्वसारिध्वमनुसृता रविणा किं तेजोभिर्भवतां साहाय्यं कृतमित्यर्थः । किं नु किं वा यूयं भाभिर्मेहिध्वे तेजोदानेन सन्मानिताः । इदमुक्तं स्यात्तमोलवनादीनि हि रविकार्याणि । एतानि च यूयमपि चक्र । ततो बन्दिभिरेवमाशङ्कयते। योपीनेन स्वामिना स्वकार्यकरणक्षमतया स्वसदृशः कृत्वा लोके स्थाप्यते साहाय्याय सैन्यादिनानुगम्यते विभूतिदानादिना सक्रियते वा स स्वामिकार्याणि कुरुते ।। यद्यज्ञविनालुलुविध्व एत्यानुग्राहिषीट्वं ननु तैरिदानीम् । संस्कारिषीवं परिकारिषीवं द्राग्ग्राहिषीवं च गुणैस्तदीयैः ॥५२॥ ५२. हे राजन् यद्यज्ञविनान् येषां मुनीनां यज्ञेषु विघ्नान्दैत्यादिकृतोपद्रवान् यूयं लुलुविध्वे । नन्विति संबोधने । तैर्मुनिभिरिदानी प्रातरेत्याश्रमेभ्य आगत्यानुप्राहिषीट्वमाशिषानुगृह्यध्वम् । मुनयो हि राज्ञः __ १ एफ यमन्व. २ ए सी इंस्तथा. ३ बी एफ किं चेने. ४ सी डी ना का. ५ एफ भूतदा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy