________________
[है० २.१.८०.] द्वितीयः सर्गः।
१६३ देशगर्भमाशासतश्चाहुः । हे राजन यूयं लक्ष्मी शक्तित्रयरूपां श्रियमवृट्वमववरत स्वीकृतवन्त इत्यर्थः । अत एव द्विषः शत्रूनस्तीमाच्छादितवन्तो जितवन्त इत्यर्थः । अत एवं पृथिवीं ववृट्वे साधितवन्त इत्यर्थः । तत्तस्मान्निष्कण्टकसर्वसंपत्तिसंपूर्णमहाराज्यावाप्तिरूपाद्धेतोः सुखं पञ्चेन्द्रियानुकूलमासिषीध्वमवस्थेयास्त । तथा गुरुन्मातापितॄन्धमोपदेष्ट्रन्वा स्तुध्वं स्तूयास्त । आशिषि पञ्चम्यत्र । प्रभाते हि विशेषतो मङ्गलत्वात्पूज्या: स्तुत्याः । तथा सांध्यविधिं संध्यावन्दनदेवपूजादि प्राभातिककृत्यं कृषीट्वं ततश्चैतद्भुवनं जगत्रयं यशोभिः कृत्वा स्तीर्षीट्वमाच्छाद्यास्त व्याप्यास्तेत्यर्थः । निष्कण्टकसमृद्धराज्यप्राप्तिलक्षणस्य पुमर्थस्यैतान्येव फलानि यत्स्वैरं कामसेवनं गुरुस्तवनादिधर्मानुष्ठानस्य करणं यच्च यशसा जगद्व्यापनमिति । एतानि चाशीर्भझ्या बन्दिभिर्नृप उपदिष्टानीत्यर्थः ॥
अस्तीईम् । स्ती(ढम् । ववृट्वे । अवम् । कृपीड्वम् । इत्यत्र “ म्यन्तात्" [४०] इत्यादिना धस्य ढः ॥ र्नाम्यन्तादिति धातोर्विशेषणं किम् । ऑसिपीध्वम् । परोक्षाद्यतन्याशिष इति किम् । स्तुध्वम् ॥ धियाग्रही निशि निद्रया नाग्राहिद्वमुद्युक्ततयाग्रहीध्वम् । न वा जडिम्ना जगृहित आन्वग्राहिध्वमुत्कृष्टगुणैः सदा हि ॥५०॥
५०. हे राजन् यूयं धिया काग्रहीट्वमाश्रिता इत्यर्थः । अत एव जडिन्ना मूर्खत्वेन का यूयं न वा जगृहिड्वे नैवाश्रिताः । तथोद्युक्ततयोद्यमगुणेन यूयमग्रहीध्वमाश्रिता अत एव निद्रया नाग्राहिवं ना
१ सी शासितश्चा. डी शासिनश्चा. २ डी एफ मनवरतं स्वी'. ३ बी सी डी व च पृ. ४ °पित्रादीन्ध'. ५ ए बी सी डी 'दि प्रभा'. ६ बी °णस्यार्थपु. ७सी वनादि. ८ ए ढ़े । कृ. ९ ए सी डी न्तादि'. १० ए आशिषी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org