SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १६२ व्याश्रयमहाकाव्ये [ मूलराजः ] इति चतुर्थः ॥ गकारः किम् । धयतेर्मा भूत् ॥ द्वेर्यङ्कुषि । संदात्त ॥ दधातेरपि यङुबन्तस्य मा भूत् । “तिवा शवानुबन्धेन” [न्या०सू०१८ ] इत्यादिन्यायात् । दौत्थ ॥ केचिद्यङुबन्तस्यापीच्छन्ति । अभिधात्त । धात्थ ॥ दुग्ध स्म दुग्धं स्म निघत्थ पार्यो पिधत्त दात्थ स्म च दात्तं चापि । तत्राणि वा दाद किमम्बु दाद्धेत्याहुः समं संप्रति घोषवृद्धाः ४८ ४८. संप्रति प्रातर्घोषवृद्धा गोकुले वृद्धनराः समं युगपत्स्वपुत्रादीनाहुः । कथमित्याह । हे पुत्रादयो यूयं दुग्धं क्षीरं दुग्ध स्म क्षारितवन्तः । तथा पार्यो दोहिन्यां दुग्धं निधैत्थ स्म निक्षिप्तवन्तश्च । तथा यूयं पार्यो निहितं दुग्धं पिधत्त वस्त्रादिना स्थगयत । तथा यूयं दुग्धं दात्थ स्मात्यर्थं पीतवन्तो दार्त्ते चापि पुनरप्यत्यर्थं पिबत । वाथवा यूयं तत्राण्युदश्विन्ति दाद्धात्यर्थं पिबत । यदि दुग्धं न रोचते तदा तत्राणि पिबतेत्यर्थः । किमम्बु दाद्ध किमिति जलं पिबथेति ॥ दुग्धम् । दुग्ध । इत्यत्र " अधः" [७९] इत्यादिना तथोर्धः ॥ अध इति किम् । दधातेर्यङुबन्तधयतेश्च मा भूत् । पिधत्त । निवत्थ । दात्त । दात्थ ॥ केचित्तु यङुबन्तधयतेरिच्छन्ति । दाद्ध | दाद्ध ॥ लक्ष्मी पृथिवीं द्वेस्ती द्विषस्तत्सुखमासिषीध्वम् । स्तुध्वं गुरून्सांध्यविधिं कृषी स्तीषमेतद्भुवनं यशोभिः ।। ४९ ।। ४९. अथ पञ्चवृत्त्या मूलराजमुपश्लोकयन्तेः प्राभातिकविध्युप १ बी तवापि . १ सी एफ 'त् । द्वे". सीएफ वापि ८ एफू कतः प्रा९ ए सी डी 'तः प्रभा . Jain Education International २ एफू दात्त । के. ३ एफ् ६ एफ बतेति. ५ डी दुग्धमपि न. For Private & Personal Use Only 6 ू ध स्म. एफ् ४ बी वृ www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy