________________
[है०२.१.७८.]
द्वितीयः सर्गः।
ततया भर्तृषु यद्यूयं मानमहंकारं धत्थ स्म धृतवत्योत एव चाटूक्त्यादिना प्रसादयत्सु भर्तृषु यद्यूयं भ्रकुटिं भ्रूविकारं दात्थ स्मात्यथै धृतवत्यस्तथा यद्धैर्यमेषां भर्तृणां संमुखमपि नेक्षिष्यामह इति चित्तावष्टभ्भं धात्थ स्मात्यर्थं धृतवत्यस्तन्मानादिधरणं पिधध्वं स्थगयत । परित्यजतेत्यर्थः । किं तु संदात्त भृशं संधयत । धेट् धातुः पानार्थोपि संपूर्वः संधाने वर्तते । यदुक्तम् ।
उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । नीहाराहारसंहारप्रतीहारप्रहारवत् ॥ स्वकान्तैः सह संधानं कुरुतेत्यर्थः । तथा कान्तानमिधात्त भृशं वदत। यद्यपि युष्माभिरवज्ञाततयापमानेन कान्ता युष्मान्न संभाषन्ते तथापि यूयमुपेत्य तान् संभाषध्वमित्यर्थ इति । प्रातर्हि राजद्वारादिषु शङ्खो वाद्यते तत्स्वरं श्रुत्वा रात्रिविभातेति मानिन्यो मानं मुक्त्वा रिरंसौत्सुक्येन कान्तान् भजन्त इत्येवमुत्प्रेक्षा । अभिधत्ते न्विति वचनसंभावनया शङ्खस्यानुक्तमपि वाद्यमानत्वं प्रतीयते ॥
वाग्भिः । षट्पद । अब्जिनी । इत्यत्र "धुटस्तृतीयः" [७६] इति तृतीयः ॥ केचित्तु विसर्गजिह्वामूलीययोरप्यलाक्षणिकयोस्तृतीयत्वं गत्वमिच्छन्ति तन्मते सुदुर ॥
पर्णघुट् । तुण्डिब् । गोधुक् । वियोगभुत् ॥ सादौ । प्रभोत्स्यते ॥ ध्वादौ च । न्यधुदम् । इत्यत्र “गड'' [७७] इत्यादिना आदेश्चतुर्थः ॥ गडदबादेरिति किम् । शोत्स्यति ॥ चतुर्थान्तस्येति किम् । दास्यति ॥ एकस्वरस्येति किम् । तमोदामलिट् ॥ स्वोरिति किम् ।बोद्धा ॥
अभिधत्ते । धत्थ । विधित्सुः । पिधध्वम् । इत्यत्र “धागस्तथोश्च" [७८]
१ सी °मुखा नक्षि. डी मुखं ने. २ एफ् नेष्या'. ३ ए बी सी डी °ण हि था. ४ वी एफ द व इ. ५ सी डी ति ए'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org